________________
आचार्य श्री विजय मृतसूरिप्रणीता सरणी टीका. सर्ग-६
रामपक्षे - दशास्याभिमुखे दशास्यस्य रावणस्य अभिमुखे सन्निधौ रावणेन सहेत्यर्थः रामानुजे लक्ष्मणे या सम्मितिः संग्रामोऽजनि उदपादि अद्भुततया विलक्षणतया देवे द्योतनात्मके नृदेवे लक्ष्मणे जयश्रीर्विजयलक्ष्मीः निश्चिता नियमिता अवश्यं भवित्री ||
३३९
-
कृष्णपक्षे – दशास्याभिमुखे जरासंघ संमुखे रामानुजे रामादनु जायते इति रामानुजः बलरामानुजे कृष्णो सम्मितिः अजनि अजनिष्ट अद्भुततया अलौकिक चमत्कारतया नृदेवें देवे कृष्णे जयश्रीर्विजयलक्ष्मी र्निश्चिता क्लृप्ता ॥ ५३ ॥
नागाहत - विवाहेन तत्क्षणे सदृशः श्रियः ।
नागाहत - विवाहेन तत्क्षणे सदृशः श्रियः ॥ ५४ ॥
अन्वयः -- विवाहेन सदृशः तत्क्षणे श्रियः न अगाहत विवाहेन तत्क्षणे ना सद्दशः श्रियः अगाहत || ५४ ॥
व्याख्या- विशुद्धतां निर्मलतां वाहयति लभते "प्रेरणांशत्यागात्" इति विवाहस्तेन विवाहेन उपलक्षितः उपलक्षणे तृतीया निर्मलतयोपलक्षितः पश्यत्यनेनेति दृशः ज्ञानम् तेन सहितः सदृशः विशेपज्ञानवान् तत्क्षणे प्रव्रज्यासमये श्रियः राज्यलक्ष्मीः न अगाहत नालभत वि श्रेष्ठताम् वाहयति निर्वाहयतीति विवाहस्तेनोपलक्षितः श्रेष्ठतामुपगतः जिनेन्द्रप्रभुः तत्क्षणे केवलज्ञानोत्पत्तिक्षणे ना पुरुषः कर्म निरसनादेव विशिष्ट पुरुषः सदृशः सदृशीः स्वस्वरूपयोग्याः श्रियः केवलज्ञानलक्ष्मीः अगाहत अलभत ॥
रामपक्षे - सदृशः दृशेन सहितः सदृशः "दृशेः कब्" सनयनः तस्य विंशतिनयनत्वेन तथा निर्देशः रावणः विवाहेन राक्षसादिविवाहेन विधिना श्रियः सीताः पूज्यत्वाद्बहुवचनम् ' न अगाहत न अलभत सदृशः ज्ञानवान् ना मनुष्यो लक्ष्मणः विः पक्षी गरुडः
"
१६