________________
महोपाध्यायश्री मेघविजयगणिविरचिते सप्तसम्धानमहाकाव्ये
व्याख्या - हरति पापमिति हरिस्ते हरयो जिनेन्द्राः अहः प्रातः अयोगेन योगराहित्येन जिनेन्द्राणां निद्रामुद्रा विमुद्रिताः निद्रायाः स्वापस्य या मुद्रा नेत्रसंकोचादिस्तां विमुद्रितास्त्यक्ताः सपर्याणा: परित एति इति पर्याणस्तेन सहिताः सपर्याणाः परितो गमनशीलाः दर्शनोत्सवम् नेत्रोत्सवं कुर्वाणाः दर्शनानन्ददायकाः पुरः अग्रे चेरुः चेलुः ॥ ५२ ॥
रामपक्षे – अहः प्रातः अयोगेन अनायासेन स्वत एवेत्यर्थः निद्रामुद्राविमुद्रिताः निद्रोत्थिता हरयः कपयः सपर्याणाः पर्यायेण अश्वसजनेन सहिताः यथाऽश्वादिरारोहणार्थे कम्बलादि पृष्ठास्तरणेन सञ्जिता भवन्ति तथा सपर्याणाः पृष्ठास्तरणसंयुक्ताः अत एव दर्शनो रसवं नयनानन्दं कुर्वाणा चिदधानाः पुरः अग्रे चेरुः विचेरुः ॥
ઢ
कृष्णपक्षे - हरयोऽश्वा अन्यत् पूर्ववद्वयाख्येयम् ।। ५२ ।। दशा - स्याभिमुखे रामानुजे या - जनि संमतिः । जयश्रीर्निश्चिता देवे नृदेवेऽद्भुतया तया ॥ ५३ ॥
अन्वयः - दशास्याभिमुखे रामानुजे या सम्मितिः भजनि अद्भुतया तपा देवे नृदेवे जयश्रीर्निश्चिता ॥ ५३ ॥
व्याख्या - दशास्याभिमुखे दशसु इन्द्रियेष्विति शेषः आस्यं प्रवृत्तिर्यस्य स दशास्यः कामः तस्य आभिमुख्ये समक्षे कथंभूते रामानुजे रामाम् कामिनीम् अनुजाति अनुसरतीति रामानुजस्तस्मिन् यद्वा रामे रमन्तेऽस्मिन्निति रामो ध्यानम् तम् तस्मिन् वा अनुजाति अघितिष्ठतीति रामानुजः श्रीजिनेन्द्रः तस्मिन् या सम्मितिः संग्रामोऽजनि कामे जिनेन्द्रे च सम्मितिरभूत नृदेवे मनुष्यदेवे देवे जिनेन्द्रे विषये अद्भुततया निरतिशयप्रभावतया जयश्रीः कामविजयलक्ष्मीः निश्चिता अवश्यंभाविनी || ५३ ॥