SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ नाचार्य श्रीविजयातसूरिप्रणीता सरणी टीका. सर्ग - ६ ३३७ अन्वयः - या रणविनिग्रहात् साधोः राजद्वाजी कुंभकर्णे रकलेपा सा सभागजा शुशुभे ॥ ५१ ॥ व्याख्या--रणविनिग्रहात् संग्रामपरित्यागात् साधोः मुनेः समाजानां समुदायानां या राजद्राजी विरोचमानश्रेणी कुम्भ इव कर्णः यथा कुम्भो जलादिकं धारयति तथायमपि बहुशास्त्रविचारग्राहक इति भात्रः तस्मिन् रक्तलेपात् रक्तस्य शास्त्रानुरागस्थ लेपादासञ्जनात् "रक्तम् कुंकुमे ताम्रे रुधिरे रागे इति शब्दस्तोममहानिधिः " भजनम् भागः " भावे घञ् " भक्तिरित्यर्थः तेन सहितः सभागः सैव सभागा ततो जायते इति सभागजा देवविषयक भक्तिजनिता सा शुशुभे बभौ ।। रामपक्षे -- धोरण विनिग्रहात धोरणानां हस्त्यश्वादियानानाम् विनिग्रहात् विनाशनात् हननादित्यर्थः कुम्भकर्णे रावणानुजे रक्तले पाद रक्तस्य रक्तचन्दस्य रुधिरस्य वा लेपात् अभ्यञ्जनात् "रक्तसंकोचपिशुनं धीरं लोहितचन्दनमित्यमरः " भा प्रभा तया सहिताः सभाः सभाः सदीप्ताः गजाः हस्तिनो यत्र सा सभागजा दीप्तिमद्गजमती मदोन्मत्तगजबहुलेति यावत् समाजानाम् रणगतानां सैनिकानाम् राजद्राजी शोभमाना श्रेणी रोचिष्णु सैन्यपंक्तिः सा शुशुभे दिदीपे || कृष्णपक्षे - धोरण विनिग्रहात् हस्त्यश्वादिवाहननाशात् अत एव कुम्भकर्णे कुम्भ इव कर्णौ यस्य स कुम्भकर्णस्तस्मिन् रक्तलेपाद हस्त्य श्वादिशरीरशोणितलेपात् सभागजा समानभागे जायते तिष्ठतीति सभागजा एकदेशस्थिता समाजानां रणगत सेनानाम् राजद्राजी विरोचमान संहतिः शुशुभे रेजे ॥ ५१ ॥ हरयोsहरयोगेन निद्रामुद्रात्रिमुद्रिताः । पुरश्वेरुः सपर्याणाः कुर्वाणा दर्शनोत्सवम् ॥ ५२ ॥ अन्वयः --- अहः अयोगेन निद्रामुद्राविमुद्विताः हरयः सपर्याणां दर्शनोरसवम् कुर्वाणाः पुररुः ॥ ५२ ॥
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy