SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ ३४४ महोपाध्यायनी मेघविजयगणिविरचिते सप्तसम्धानमहाकाब्बे काम इत्यर्थः अथवा मन्दोदरीम् वनिताम् धर्मिपारतच्यात् वृणोति स्त्रास्त्रेण स्वीकरोतीति मन्दोदरीवरः यद्वा मन्दोदरीभिः कामिनीभिः वियते इति मन्दोदरीवरः स कामः चारिणा विहरणशीलेन हरिणा जिनेन्द्रेण विभिदे चिच्छिदे निराचक्रे ॥ रामपक्षे-स मन्दोदरीवरः रावणः परपरिग्रहात् अन्यदीयभार्यातः नरस्य नीतेः क्षितिम् नाशं विदन् मन्यमानः यद्वा नरस्य नरजीवनस्य क्षितिं क्षयम् विदन् दर्पम् अहंकारम् मानम् धरन विभ्रत् चारिणा वनवासिना हरिणा लक्ष्मणेन विभिदे जन्ने । कृष्णपक्षे– परस्य शत्रोः परिग्रहात् स्वीकारात् नरक्षितिम् जनविनाशम् विदन् जानन् दपमहंकारं धरन् धारयन् मन्दोदरीवरः मन्दोदरी काचिजरा नाम्नी स्त्री तया त्रियते संयुज्यते यः स मन्दोदरीवरः जरया संधितो जरासंधः चारिणा रणाङ्गणचारिणा हरिणा कृष्णेन विभिदे विदारितः ॥ ५९॥ कुमारीवेदसाहस्रान सराज्यान् यत्कृते दधत् । इक्ष्वाकुवंशवृषभः शं-के-वलधिया श्रितः ॥ ५९॥ अन्वयः-कुमारी सराज्यान् वेदसाहस्रान् यत्कृतेऽदधत् इक्ष्वाकुवंशवृषभः शं केवलश्रियाश्रितः अभवदिति ॥ ५९ ॥ व्याख्या-कुमारी कुमारितुम् आत्ममनने क्रीडितुं शीलमस्य स आत्मानुभवशीलः राजते इति राजः तस्य भावः राज्यम् राज्येन सहिताः सराज्यास्तान् सदीप्रान् वेदसाहस्रान् विदन्त्यनया इति वेदः ज्ञानम् तेषां साहस्रान् वेदसाहस्रान् अत्र सहस्रशब्दोऽनन्तार्थ इति अनन्तज्ञानानि यत् कृते यनिमित्तम् दधत् धारयन् इक्ष्वाकुवंशवृषभः इक्ष्वाकुवंशश्रेष्ठः सर्ववर्णनीयतीर्थङ्कराणामिक्ष्वाकुवंशप्रभवत्वं पूर्व प्रद. र्शितमेवेति भावः जिनेन्द्रः सम् सम्यक् केवलश्रिया केवलज्ञानलक्ष्म्या आश्रितः अवलम्बितः अभवदिति शेषः ॥
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy