SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ भाचार्यश्रीविनयामतपरिप्रणीता सरणी टीका, सर्ग-1 ११ सुखवान् न सर्व एव कुशलवान् जात इति तत्वम् ।। रामपक्षे-दीघे महति रावणौ रावणपुत्रे मेघनादे उद्यते संग्रामाय उद्युक्ते सति सर्वत्राभयविसंयः सर्वत्र सर्वेषु स्वसैन्येषु अभयस्य निर्भयस्य विस्मयः अजनि इति शेषः अथवा सर्वत्र सर्वेषु रामसैन्येषु आसमन्तात् भयस्य मीतेर्विमयः आभयेन विस्मय इति वा अजनीति शेषः कौशल्यानन्दनस्य रामस्य उद्योगः रणगमनम् तस्मिन् कः सैन्यपरिगतः का कौशल्येन कुशलस्य भावा कौशल्यम् मांगल्यम् तेन नन्दनः आनन्दयुक्तः न सर्वे आनन्दिता अभवनिति भावः ॥ श्रीकृष्णपक्षे जिनेन्द्रपक्षवज्ज्ञेयम् ॥ ४६ ॥ प्राप्ते मार्गे दशमुखेऽभिमुखे संयतीशिताम् । न कोऽपि निरतः स्थातुं पुरतो विनतात्मना ॥ ४७ ॥ ___ अन्वयः-संयतीशिताम् प्राप्ते दशमुखे अभिमुखे मार्गे कोऽपि विन. तात्मना पुरत: स्थातुम् न निरतः ॥ ४ ॥ व्याख्या-संयतंते इति संयतिनः साधवः तेषु ईशिता ईशित्वम् इति संयतीशिताम् प्राप्ते लब्धे दशमुखे दशसु दिक्षु मुखं यस्य स दशमुखस्तसिन् 'यदा जिनेन्द्रो देशनां ददाति तदा सर्वदिगुपवि. ष्टानां स्वाभिमुखमेव लक्ष्यते दीपशिखावदिति' दशमुखे जिनेन्द्र अभिमुखे संमुखे मार्ग तदृष्टिपातभूमौ कोऽपि कश्चिदपि विनतात्मना विशेषेण नत आत्मा यस्य तेन विनतात्मना नतकन्धरेण पुरतः अग्रतः स्थातुम् उपवेष्टम् न निरतः न समर्थः सर्वतः सर्व एव नता आसमित्यर्थः॥ रामपक्षे-ईशिताम् प्रभुताम् प्राप्ते सर्वराक्षसेश्वरतामुपगते दशमुखे रावणे अभिमुखे संमुख मार्गे तत्संमुखीने सति पुरतः अग्रतः संयति संग्रामे विनतात्मना शरपातभयात् विना नम्रतया खातुम न
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy