SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ - २५४ महोपाध्यायत्रीमेपषिजयगणिविरचिते सहसम्धानमहाकाब्वे कोऽपि निरतः समर्थः रावणबाणभिन्नमर्माणः सर्व एव नीचैर्मुखा अभवनिति तात्पर्यम् ॥ कृष्णपक्षे-संयति संग्रामे ईशिताम् प्रगल्भतां प्राप्ते दशमुखे सर्वतो दत्तलक्ष्ये कृष्णे सति मार्गे रणमार्गे अभिमुखे समक्षे विनतास्मना विना नम्रतया कोऽपि पुरतः अग्रतः स्थातुं न निरतः न समर्थः अभवत् ॥ ४७॥ दृष्टे पुण्यजनाधीशे बृहद्रथभुवि स्वतः। सर्वे नरा वानरा वा चलाचलदशां दधुः ॥४८॥ अन्वयः-पुण्यजनाधीशे बृहद्धभुवि दृष्टे स्वतः सर्वे नरा वानरा वा चलाचळदशाम् दधुः ॥ ४० ॥ व्याख्या-रम्यतेऽनेनेति स्थः " रमे कथन् ” रम्यस्थानम् बृहन्महांश्चासौ रथश्चेति बृहद्रथः तस्य भूः तसिन् बृहद्रथभुवि महद्र म्यभूमौ मोक्षमार्गे पुण्यजनाधीशे पुण्यजनाः पवित्रजना अधीशते यत्र तस्मिन् पवित्रजनाधिष्ठिते वर्तमाने जिनेन्द्रे दृष्टे नयनगोचरे सति सर्वे नराः मनुष्याः अनराः देवाश्च यक्षगन्धर्वादयश्च स्वतः अकारणात् चलाचलदशाम् तचजोधर्षितत्वात् चञ्चलताम् उत्सुकताम् दधुः जग्मुः ॥४८॥ रामपक्षे । बृहन्महांश्चासौ स्थश्चेति बृहद्रथः महत्स्यन्दनः तत्र भवतीति बृहद्रथभूस्तस्मिन् महद्रथस्थे पुण्यजनाधीशे पुण्यजनानाम् राक्षसानाम् अधीशे नृपे “यातुधानः पुण्यजनो नैऋतो जातु रक्षसीत्यमरः" रावणे दृष्टे समरभूमिगोचरे सति सर्वे नराः मनुष्या: वानराः कपयश्च स्वतः स्वयमेव चलाचलदशाम् साध्वसा चञ्चलताम् अस्थिरताम् दधुः अनुभवन्तिस्म रावणभयात् सर्वे इतस्ततोऽभवन्निस्वर्थः॥४८॥
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy