________________
३३२ महोपाध्याय श्रीमेषविजयगणिविरचिते सहसम्मानमहाका
व्याख्या-वियोगिनाम् विगतः योगः सांसारिकविषयसंबन्धो येषां ते वियोगिनस्तेषाम् निर्ग्रन्थिनां मुनीनाम् शुद्धैषणानवच्छेदाद शुद्धैषणायाः पवित्रैषणायाः निरवद्यमिक्षायाः अनवच्छेदात् नैरन्तर्याद वैयावृत्यम् साधुसेवाविशेषम् स्वतन्वा स्वशरीरेण वितन्वानाः कुर्वाणा: मुनयः इति शेषः, आशु झटिति प्रायश्चित्तम् प्रायस्य पापस्य चिचम् शोधनम् यस्मात् तम् 'प्रायो नाम तपः प्रोक्तं चित्तं निश्चय उच्यते। तपोनिश्चय संयुक्तं प्रायश्चित्तमिति स्मृत'मित्युक्तखरूपं वा समादधुः चक्रु॥
रामकृष्णविषये- शुद्धषणानवच्छेदात् शुद्धः निशातो य एषणो बाणः तस्य अनवच्छेदात् सातत्याद अनवरतवाणप्रयोगात् वियोगिनाम् वि असहनेऽक्षमायां योगोऽभिनिवेशो येषां ते वियोगिनस्तेषामसहिष्णूनां वैयावृत्त्यम् व्यावृत्तर्भवम् वैयावृत्त्यम् निवारणम् आशु शीघ्रम् चितन्वानाः विस्तारयन्तः स्वतन्वा शरीरेण प्रायः बाहुल्येन चित्तं मनः समादधुः समादधतिस चितैकाय्यं चक्रुरित्यर्थः ॥४५॥ उद्यते-रावणो दीघे सर्वत्राभयविस्मयः । कोशल्यानन्दनोद्योगे कौशल्यानन्दनो न कः? ॥४६॥
___ अन्वय--दीधैं रावणौ उद्यते सर्वत्र अभयविस्मयः कौशल्यानन्दनोद्योग का कौशल्यानन्दनो न ॥ ४६ ॥
व्याख्या-रावयति निवारयति कर्म दुःखं यः स रावणः तस्यायं रावणिः उपदेशः तसिन् रावणौ उपदेशे दीर्घ महति उद्यते प्रभवति सति प्रभूत जिनेन्द्र व्याख्याने प्रसरति सतीति भावः सर्वत्र सर्वतो. भावेन अभयस्य निराबाघस्य परस्परविद्वेषशान्तभावस्य विस्मयः आश्चर्यः अजनीति शेषः कौशल्येन निजालौकिकनैपुण्येन आनन्दयतीति कौशल्यानन्दनः निजनिर्मलदाक्ष्येणानन्दयिता तस्य उद्योगे उपदेशविधौ कः संसारी कौशल्यानन्दना कौशल्येन कुशलतया नन्दनः