________________
भाचार्य श्रीविजयातपरिप्रणीता सरणी टीका. सर्ग-
६ ० अन्वयः-परे मार्गणान्वेषणात् जीवाजीवाश्रयदृशः वारवाणभृत: वारबाणात् विरतिम् भादधुः ॥ ४४ ॥
व्याख्या—मार्गणान्वेषणात् मार्यतेऽनेनेति मार्गणम् शास्त्रम् ज्ञानं वा “करणे ल्युः" तस्य अन्वेषणात् पर्यालोचनात् परे केऽपि जीवाजीवाश्रयदृशः जीवाश्च अजीवाश्चेति जीवाजीवम् तत् आश्रयति विचारयतीति जीवाजीवाश्रयदृक् येषां ते जीवाजीवविचारचणाः वारवाणभृतः वारवाणम् कवचम् बिभ्रति धारयति इति वाखाणभृतः कवचधारिण: " निचोलकः स्यात् कूपासो वारवाणश्च कंचुक इति हैम:" अथवा बियते जनैरिति वारः संसारः तम् बाणयति रुणद्धीति प्रेरयति विक्षिपतीति वारबाणः संसारनिवर्तकस्तं बिभ्रतीति वारबाणभृतः चारित्र्यवन्तः संसारनिवर्तकाध्यवसायवन्तो वा वारबाणात् वारम् जनसमूहम् बाणयति आवयति स्वसानिद्धयं कारयतीति वारवाणः वेश्याजनः तस्मात यद्वा बाणम् शरम् वृणोतीति वारबाणः राजदन्तादित्वात् परनिपातः तस्मात् हिंसार्थवाणधारणात् विरतिम् विरामम् आदधुः स्वीचक्रुः अत्र गम्यो विरोधाभासोऽलंकारः ॥
रामकृष्णपक्षे-मार्गणान्वेषणात् मार्गणस्य बाणस्य अन्वेषणात् संधानात् जीवाजीवाश्रयदृशः जीवन्मृतज्ञानवन्तः एते जीवन्ति एते मृता इति विवेकवन्तः वारवाणभृतः कवचिनः बाणवारात बाणावसराव बाणाघातात विरतिम् निवृत्तिम् आदधुः कृतवन्तः कवचधारणेन बाणवेधस निवृत्तिः कृतेति भावः ॥ "वेलावारावसर प्रस्तावः ।। प्रक्रमोऽन्तरमिति हैमः" || ४४ ॥
शुद्धषणानवच्छेदाद्वैयावृत्त्यं वियोगिनाम् । स्वतन्वाशु वितन्वानाः प्रायश्चित्तं समादधुः ॥४५॥
अन्वयः-वियोगिनाम् सुद्धैषणानवच्छेदात् वैयावृत्यं स्वतन्वा वितन्वानाः भाशु प्रायधिस समादधुः ४५ ॥