________________
महोपाध्याय श्री मेघविजय गणिविरचिते सप्तसन्धानमहाकाव्ये
रामकृष्णपक्षे के केऽपि बलम् स्वसामर्थ्य परामृश्य विचार्य पुरतः अग्रतः संग्रामभूमौ पदं चरणं न आदधुः न धृताः संग्रामभूमौ न गताः परे केचन के शरीरे अश्रद्धया किमिदं क्षणभङ्गुरं शरीरं रक्ष्यते इति शारीरिकममरहिताः श्रूयते इति श्रुतिः शब्दः तस्याः मीमांसकाः विचारवन्तः धि धिग् किमिति पलायन्ते नेयं वीरपद्धतिरिति शत्रुवचनविचारकाः वीराभिमानिन इत्यर्थः पुरतः संग्रामायाग्रतः पदं चरणं आदधुः संग्रामाय जग्मुरिति भावः ॥ ४२ ॥
धन्याः केऽपीश्वरम्मन्या यथेच्छाचारकारिणः । स्वकारणे कार्यकृतः सभ्या वाल्लभ्यमैयरुः ॥ ४३ ॥
३३०
भन्वयः - – केsपि ईश्वरम्मन्याः यथेच्छाचारकारिणः स्वकाः रणे अकार्यकृतः सभ्या वाल्लभ्यम् ऐयरुः ॥ ४३ ॥
व्याख्या - ईश्वरम्मन्याः जिनेन्द्रे ईश्वरबुद्धिमन्तः यथेच्छाचारकारिणः जिनेन्द्रस्य या इच्छा आचारथ तयोः कारिणः जिनेन्द्राज्ञानुवर्त्तिनः स्वकाः स्वाधीनाः न तु पुत्रकलत्रादिपरतंत्राः रणे संग्रामे कार्य हिंसनादिकम न कुर्वन्तीति अकार्यकृतः हिंसादिव्यापारपराक्मुखाः धन्याः कृतकृत्याः श्रेष्ठाः सभ्याः सभाहीः योग्याः वाल्लभ्यम् प्रागल्भ्यम् ऐयरुः अलभन्त ||
रामकृष्णपक्षे - केऽपि केचन ईश्वरम्मन्या आत्मानम् ईश्वरम्म न्यन्ते इति तथोक्ता अत एव यथेच्छाचारकारिणः स्वाभिमतकार्यकारिणः निष्प्रतिबंधा धन्याः श्रेष्ठाः स्वकाः स्वाधीनाः रणे संग्रामे कार्यकृतः संग्रामकार्यदक्षाः सभ्याः सभाः वाल्लभ्यम् वल्लभताम् प्रगल्भतां ऐयरुः आप्राप्नुयुः ॥ ४३ ॥ मार्गणान्वेषणाज्जीवाजीवाश्रयदृशः परे ।
वाराणभृतो वारवाणाद्विरतिमादधुः ॥ ४४ ॥