________________
आचार्य श्रीविजयामृतसूरिप्रणीता सरणी टीका. सर्ग-६
बाणमोचने शत्रुच्छेदनविधौ च पटुः दक्षः दीप्तिभाग अतितेजस्कः अन्वयं निजपितृमातृकुलावदात्तच्वं महद्वंशप्रसूतोऽहमिति मत्वा विचार्य ज्यायाः मौर्या यो घातः हस्ते स्पर्शजनितः क्षतिः तस्य वारणं निवारणं हस्ते चर्मबन्धनम् चक्रे विदधे युद्धाय सन्नद्यत इति भावः ।। ४१ ।।
३२९
न केवलं परामृश्य पुरतः पदमादधुः । अश्रद्धया के वलिनां परे मीमांमकाः श्रुतेः ॥ ४२ ॥
अन्वयः --- केवलं परामृश्य पुरतः पदम् न आदधुः किन्तु परे मीमांसकाः केवलिनाम् अश्रद्धया श्रुतेः पद्मादधुः ॥ ४२ ॥
व्याख्या - केचन केवलम् प्रभोरिति शेषः केवलज्ञानं जातमिति परामृश्य विचार्य पुरतः अग्रतः समवसरणस्थ प्रभुदर्शनार्थमुपदेशश्रव गार्थ वा पदम् आदधुः तत्र गमनाय प्रचक्रमिरे न किन्तु केवलिनाम् केवलज्ञानवतां प्रभ्रूणां प्रभुमित्यर्थः "अनादरे षष्ठी" अश्रद्धया तद्विषयकालीकबुद्ध्या श्रुतेः श्रवणस्य केवलज्ञानमुत्पन्नमिति विश्वासराहित्येन मीमांसकाः परे केsपि कर्मवादिनोऽपि पदम् तत्र तद्दर्शनाय चरणप्रचारमादधुः चक्रुः ॥ यद्वा केवलिनाम् केवलज्ञानवताम् अश्रद्धया अभक्त्या श्रुतेः शास्त्रस्य अमीमांसकाः शास्त्रज्ञानरहिताः परे केचन परामृश्य विचार्य अस्माकमत्राकाशो न भवेदिति विचार्य पुरतः अग्रतः स्वस्थानादग्रे केवलम् पदम् एकपदमपि न आदधुः स्वस्थानादेकक्रममपि न चेलुः ॥
यद्वा श्रुतेः शास्त्रस्य मीमांसकाः विचारकाः शास्त्रविचारदक्षा : बलिनाम् बलवताम् परे श्रेष्ठाः आत्मज्ञानवतां धुर्याः के कामतंत्रे देहे वा अश्रद्धया अनभिनिवेशतया बलम् स्वीयसामर्थ्य परामृश्य विचार्य पुरतः अग्रतः देशनाश्रवणार्थ के पदं गमनम् न आदधुः न चक्रुः किन्तु सर्वे तत्र पदमादधुर्जग्मुरिति भावः ॥ ४२ ॥