________________
१२८
महोपाध्यायश्री मेघविजयगणिविरचिते सप्तसम्भानमहाकाम्ये
रामकृष्णपक्षे-प्रभोः रामस्य कृष्णस्य च आदेशमाज्ञाम् आसाद्य प्राप्य योगिसेनाप्रणीः युज्यते नियुज्यते संग्रामायेति योगिनी सा चासौ सेना चेति योगिसेना तासु अग्रणीः श्रेष्ठः अग्रेसर इत्यर्थः मणी वीरेषु गण्यते संख्यायते इति गणी संख्यावान् सेनापतिरितिभावः कृतहस्ततया सुशिक्षिततया क्षिप्रहस्ततया आरोपत्यागात भ्रमराहित्येन अहिते शत्रौ रणम् युद्धम् चक्रे विदधे || "निष्णातो निपुणो दक्षः कर्महस्तमुखाः कृतादिति हैमः" ॥ ४० ॥
कश्चित सारसनाभिस्पृव्यवच्छेद विधौ पटुः । दीतिभागन्वयं मत्वा चके ज्याघातवारणम् ॥११॥
अन्वयः-कश्चित् सारसनाभिस्पक व्यवच्छेदवधौ पटुः दीतिभाक् अन्वयं मत्वा ज्याघातवारणं चक्रे ॥ ४ ॥ व्याख्या-कश्चित कोऽपि सारसनाभिस्पृक् सारसेनयुक्तो नाभिः सारसनाभिः काञ्चीयुक्तनाभिः तम् स्पृशतीति तथा स्त्रीकट्याभरणसहितनाभिस्पृर्शकर्ता व्यवच्छेदविधौ तत्परित्यागविधौ पटुः कुशलः यद्वा सारसनाभिस्पृशः व्यवच्छेदविधिः परिवर्जन विधिस्तत्रपटा दक्षः। स्त्रीसंभोगरहितो जातः अत एव दीप्तिभाग कान्तिमान् जात इति शेषः अन्वयम् सम्बन्धं सर्वत्रजीवसम्बन्धं बुध्वा ज्याघातवारणं ज्यया मौा धनुर्गुणेन यो घातःप्राणिवधस्तस्य वारणं निषेधं हिंसानिति चक्रे गणधरोपदिष्टवचनं श्रुत्वा कश्चिद्योषित्संगानिववृते कश्चिद्धिसा-: तश्चेति तत्वम् ।। ४१ ॥
रामकृष्णपक्षे-आरसति शब्दं करोतीति आरस: आरसेन सहितः सारसः स चासो नाभिः रथचक्रवामपिण्डी चेति सारसनाभिस्तं स्पृशति स्वस्थं करोतीति सारसनाभिस्पृक् "नाभिर्नाभौ रथचक्रस्य वामपिंड्यां क्षत्रिये मृगमदे इति शब्दस्तोममहानिधिः" व्यवच्छेदविधी