SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ भाचार्यश्रीविजयामृतसरिप्रणीता सरणी का. सर्ग-१ १२७ रामकृष्णपक्षे-तत्र समवसरणे समानयुद्धे स्वस्वसमाजे प्रेक्षकास्ते तस्थुरन्यत् पूर्ववत् ।। ३८ ।। पत्तीनां समितौ पत्ति-योगः सादिषु सादिनाम् । रथिनां रथिसंसर्गाद मर्यादातिक्रमो न तत ॥३९॥ अन्वयः-पत्तीनां समिती पत्तियोगः सादिनाम् सादिषु रथिनाम् रथिसंसर्गात् तत् मर्यादातिक्रमो न ॥ ३९ ॥ व्याख्या-पत्तीनाम् सेनानाम् "एकोरथो गजोऽप्येकत्रयो. ऽश्वाः पञ्च सैनिकाः पत्तयस्ते समाख्याता युद्धशास्त्रविशारदै" रित्युक्तप्रकाराणां समिती समुदाये पत्तियोगः उक्तप्रकाराणां योगः सम्बन्धः सादिषु अश्वगजारोहणकर्तृषु जनेषु सादिनाम् अश्वारोहिणाम् गजारोहिणाम् योगः सम्बन्धः रथिनाम् रथारोहिणाम् रथिसंसर्गात रथिभिः सम्बन्धात् तत् मर्यादातिक्रमः श्रेणीभङ्गः न, क्रमस्खलना न जातेति भावः ॥ ___ व्यभिचार नयात्येत-द्वयाख्यानं रामकृष्णयोः ॥ ३९ ॥ प्रभोरादेशमासाद्य योगिसेनाग्रणीगणी । कृतहस्ततयारोपत्यागाच्चके हिते-रणम् ॥ ४० ॥ अन्वयः-प्रभोः आदेशम् आसाद्य योगिसेनाप्रणीः गणीकृतहस्ततया भारोपत्यागात् हितेरणम् चक्रे ॥ ४० ॥ ___व्याख्या-प्रभोः जिनेन्द्रस्य आदेशम् अनुज्ञाम् आसाद्य लब्ध्वा योगोऽस्यास्तीति योगी “अस्य स्वं तपोयोगसमाधय इति हैमः" योगिनां सेना समुदायः तत्र अग्रणीः श्रेष्ठः इति योगिसेनाग्रणी: योगिसमुदायाग्रेसरः गणी-"अनूचानः प्रवचने साङ्गेऽधीती गणश्च स इति हैम:" गणधरः ऋषभादिः कृतहस्ततया मुशिक्षिततया आरोपत्यागात् आरोपस्य भ्रमस्य त्यागात निरसनात् यथास्थितवस्तुस्वरूपतः हिते. रणम् सदुपदेशम् चक्रे विदधे ॥
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy