SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ ३२६ महोपाध्यायधीमेष विजयगणिविरचिते सक्षसम्मानमहाकावे ....................... .....................aamaanaaratamarinuter . narwww.rrrrrrror व्याख्या-मुरासुराङ्गसंगतेः मुराः देवाः असुराः दानवाः तयोर्द्वन्द्वः इति मुरासुरे तयोरङ्गसङ्गतिः अवयवसम्मेलनमिति सुरासुराङ्गसङ्गतिः अवयवसम्मेलनमिति सुरासुराङ्गसंगतिः देवासुरसम्मेलनं तस्मात् देवासुरसङ्गतेः सकाशात् यद्वा देवासुरसंगतिमाश्रित्येत्यर्थः ।। "ल्यब्लोपे पंचमी" स्वान्ययो भुजोोंगे स्वे च अन्ये च इति तयोः खान्ययोः भूभुजोः नरराजदेवराजयोः योगे सम्बन्धे । यद्वा देवराजासुरराजयोोंगे लग्नवध्वाः परिणयागतवध्वाः दशां वस्त्राञ्चलम् आश्रयते यस्मिन् तत् इव यथास्यात्तथा वा समवसरणम् केवलज्ञानो. त्सवम् वरमुक्तिवध्वा दशाश्रयमिवेत्यर्थः जज्ञे समुत्पेदे ।। रामकृष्णपक्षे-सुरासुराङ्गसंगतेः सुराणाम् देवानाम् दैत्यानाम् राक्षसानां वा अङ्गसङ्गतिः शरीरसम्बन्धस्तस्मात् प्रेक्षकतया देवासुरसइतेः पश्चात् लमवध्वाः संग्रामलक्ष्म्याः विजयलक्ष्म्याः दशाम् वस्त्रा. श्लमाश्रयते उद्देश्यत्वेन अभिलक्ष्यते यत्र तत् स्वान्यभभुजोर्योगे स्वकीयपरकीयराजसम्बन्धे उभयपक्षनृपतिसमायोगे समवसरणम् समानयुद्धम् एकतरपक्षजयपराजयशून्यम् जज्ञे बभूव ।। ३७ ॥ सुराः सुरपदे लग्ना मग्नास्तत्र नरा नरैः । भूपा भूपालमासाद्य तुल्यस्थानप्रयत्नकाः ॥ ३८ ॥ अन्धयः-तत्र सुराः सुरपदे लग्ना नराः नरैः मन्नाः भूपाः भूपालमासाय सुलस्थानप्रयत्नकाः ॥ ३७ ॥ व्याख्या -- तत्र समवसरणे सुराः देवाः सुरपदे देवस्थाने लग्नाः स्थिता उपविष्टा इत्यर्थः नराः मनुष्याः नरैः मनुष्यैः सहेति शेष: मनाः निमग्नाः संगताः भूपाः पृथ्वीपतयः भूपालम् नृपम् आसाद्य प्राप्य भूपतिश्रेणिमाश्रित्य तुल्यस्थानप्रयत्नकाः तुल्यस्थाने खसमानस्थाने योग्यस्थाने इति तत्वम् प्रयत्नो येषां ते तथोक्ताः असंकीर्णा आसनिति शेषः खस्खयोग्यस्थाने समुपविष्टा इति भावः ॥
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy