SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ भाचार्यश्रीविजयामृतत्रिप्रणीता सरणी टीका, सर्ग- ३२५ साम्बाग्रजजयध्वनिः प्रद्युम्नसाम्बप्रभृतिः नेमिरक्षितः नेमिनाथेन कृतरक्षाविधिः नरः विद्याधरान् जेतुम् पराजयितुम् प्रतस्थे चचाल । अर्वाक जरासंधसैन्या-दागुर्विद्याधरोतमाः। वैताट्याद्रौ जरासंध गृह्या ये संति खेचराः। तेषां जयार्थ सेनानी-वसुदेवोऽस्तु तेऽनुज इत्यादि नेमिनाथचरित्रे कथा सन्दर्मः ॥ ३५ ॥ ज्योतिर्वैमानिका देवा भावनाश्च वनेचराः । नन्वीयुः के-वलोत्पत्तिमहिमानं दिदृक्षवः ॥ ३६॥ ___ अन्वयः-ज्योतिर्वैमानिकादेवा भावनाः च वनेचराः केवलोत्पत्तिमहिमानम् दिदृक्षवः नन्वीयुः ॥ ३६ ॥ व्याख्या-केवलोत्पत्तिमहिमानम् केवलस्य केवलज्ञानस्य उत्पत्तिरुद्भवः तस्याः महिमानम् अनुभावम् दिदृक्षवः द्रष्टुमिच्छवः प्रेक्षकाः ज्योतिः ज्योतिष्कदेवाः वैमानिकदेवाः भावनाः भुवनपतिदेवाः बनेचराः व्यंतरदेवा ननु इति कोमलालापे ईयुः आजग्मुः ।। रामकृष्णपक्षे-के राजनि राक्षसराजे रावणे जरासंधे नृपे वा "कः राजनि-ब्रह्मणि-आत्मनि-देहे मनसीत्यादिशब्दस्तोममहानिधि" विषये बलोत्पत्तिमहिमानम् प्रभावोत्पत्तिविशेषौदकर्ण्यम् दिदृक्षवः प्रेक्षकाः ज्योतिः ज्योतिष्कदेवाः वैमानिका देवा भावनाः भुवनपतिदेवाः वनेचराः ननु ईयुः आययुः लोकोत्तरवीरद्वयोः प्रभावदर्शनाय समापेतुः ॥ ३६॥ जज्ञे समवसरणं लग्नवध्वा दशाश्रयम् । स्वान्ययोर्भूभुजोर्योगे सुरासुराङ्गसंगतेः ॥ ३७॥ अन्वयः-सुरासुरांगसंगतेः स्वान्ययोर्भूभुजोयोंगे लमबध्वा दशाश्रयम् समवसरणम् जज्ञे ॥ १० ॥
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy