________________
३२४
महोपाध्यायश्री मेघविजयगणिविरचिते समसम्मानमहाकाये
वसुदेवः साङ्गजन्मा साम्बाग्रजजयध्वनिः । नरो विद्याधराओतुं प्रतस्थे नेमिरक्षितः ॥ ३५ ॥
अन्वयः--साङ्गजन्मा बसुदेव; साम्बाग्रजजयध्वनिः नेमिरक्षित: नरः विद्याधरान जेतुम् प्रतस्थे ॥ ३५ ॥
व्याख्या-वसुदेवः वसुना दीप्त्या दीन्यति प्रकाशते इति वसुदेवः कान्तिमान् अद्भुततेजस्कः अंगयतीत्यङ्गः तेन अङ्गेन चिह्न सहितं जन्म यस्य स साङ्गजन्मा तीर्थङ्कराणां पृथक् पृथक् लाञ्छनं जन्मत एव भवतीति ज्ञेयम् सलाञ्छनः अम्बया सहितः साम्बः तस्य अग्रजः प्रथम जातः जयध्वनिः जयजयारावो यस्य साम्बाग्रजजयध्वनिः तीर्थङ्कराणां जननी जन्मनि स्वजन्मनि च देवैर्जयशब्दः क्रियते इति समुदाचारः नरः ना यद्वा : कामानलो नास्ति यस्य स नरः कामानलरहितः जिनेन्द्रः विद्याधरान मारणमोहनवशीकरणविद्वेषणोचाटनस्तम्भनादिषड्विधविद्योपजीविनो जेतुम् पराजयितुम् यद्वा अविद्याधरान अज्ञान् सावधज्ञानवतो वा जेतुम्उपदेष्टुम् अनेमिरक्षितः नेमिः रथोपकरणविशेषस्तेन रक्षितो न भवतीति तथा पादचार: प्रतस्थे विजहार ॥
रामपक्षे-वसुदेवः कान्तिभृत् समानादेकरमादङ्गजन्म शरीरधारण यस्य स एकपिटकः सलक्ष्मण इत्यर्थः अमति वात्सल्यं यातीति अम्बः अम्बते स्ने हेन जल्पतीति वा अम्बः स्नेहकर्ता तेन सहितः अग्रजो यस्य स साम्बाग्रजः तसिन् जयध्वनिर्विजयशब्दो यस्य स साम्बाग्रजजयध्वनिः नरः लक्ष्मणः नेमिरक्षितः चक्रपालितः विद्याधरान् अन्तर्धानादिविद्यायुक्तान् जेतुम् प्रतस्थे चचाल ।
कृष्णपक्षे-साङ्गजन्मा अंगात् जन्म यस्य स साङ्गजन्मा तनूजः तेन सहित: अकरा क्रूरः ज्वलनवेग इत्यादयस्तत्सुतास्तैः सह वसुदेवः