SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका. सर्ग-६ मेघ इव नादो यस्य तम् सर्वविजयित्वात् यद्वा मेहनम् सिञ्चनम् मेघः तस्मै नदति गर्जतीति मेघनादः श्रीसंगमाय कृतगर्जनस्तम् बृह द्रथमतङ्गजम् रमन्ते अनेनेति रथः बृहत् महान् चासौ रथवेति बृह. द्रथः तस्मिन् मतङ्गजः श्रेष्ठः इति तथोक्तः महद्रमणसाधकः काममूलादेव स्त्रीविलासप्रवृत्तिरिति भावः तम् यद्वा बृहन्महान् रथो यस्य स बृहद्रथः स चासौ मतङ्गजचेति तथा मदोन्मत्तत्वात्तत्सादृश्यम् तं गर्जितैः स्वीयशब्दैः तर्जयामास विद्रावयामास || जिनेन्द्रसमवसरण - वाद्यानि विपक्षान् क्षोभयन्तिस्मेति भावः ॥ ३२३ रामपक्षे - सानकदुन्दुभिः दुन्दु इति शब्देन भापयति भीषयति दिशो विद्रावयति शत्रू निति दुन्दुभिः आनकेन सहितः दुन्दुभिः इति सानकदुन्दुभिः प्रोत्साहितवानरसैन्यम् समुद्र विजयम् समुद्रेण परिखाभूतेन विजयो रिपुकतानभिभवो यस्य तम् दुस्तरसमुद्रपरिखस्वाद कैरपि पराजयितुमशक्यम् बृहद्रथमतंगजम् बृहद्रथे महद्रथेमतंगजो यस्य तम् हस्तिरथस्थम् मेघनादम् तदभिधानम् रावणतनयस् गर्जितैर्निजगर्जनाभिस्तर्जयामास निर्भर्त्सयां चक्रे ॥ - कृष्णपक्षे – सानकदुन्दुभिः आनकदुन्दुभिर्वसुदेवः तेन सहितः इति सानकदुन्दुभिः वसुदेवसहित यादव सैन्यम् समुद्रविजयम् समुद्रन्ति आर्द्रीभवन्ति रुधिरेण शत्रवो यस्मात् स समुद्रः यद्वा मुद्रया सहितः समुद्रः विजयते इति विजयः समुद्रश्चासौ विजयश्चेति समुद्र विजयस्तम् मेघनादम् मेघ इव घन इव नदतीति मेघनादस्तम् वृहद्रथमतंगजम् बृहद्रथस्यापत्यम् बृहद्रथः अपत्यप्रत्ययस्य लुक् स मतङ्गज इवेति जरासंध गर्जितैः स्वीय वीरशब्दैः तर्जयामास क्षोभयामास ॥ बृहन्महान् रथो यस्य स बृहद्रथः स मतंगज इवेति बृहद्रथ मतंगजस्तमित्यर्थो वा भासते । श्लेषः ॥ ३४ ॥
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy