SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ महोपाध्याय श्री मेघविजय गणिविरचिते सप्तसन्धानमहाकाव्ये अन्वयः -- तत्र विविधायुधभूषिताः नानाविद्याधराः परपक्षविनाशनैः मधुरां भक्तिम् विदधुः ॥ ३३ ॥ ફર व्याख्या - तत्र जिनेन्द्रस्य समवसरणस्थाने विविधायुधभूषिता आयुध्यते यैस्तान्यायुधानि विविधानि अनेकप्रकाराणि च तानि इति विविधायुधानि तैर्भूषिताः कृतमंडनाः नानाविद्याधराः अनेक देवयोनि - विशेषाः परपक्षविनाशनैः परपक्षाणां विपक्षपक्षाणां विघ्नविधायकानाम् पापानां वा विनाशनैः विघातैर्निराकरणैर्मधुराम् निर्मलाम् निश्छद्मामित्यर्थः भक्तिम् सेवाम् प्रीतिम् विदधुः चक्रुः ॥ ३३ ॥ रामकृष्णपक्षे - नानाविद्याधराः अनेकशास्त्रपरिशीलन पटिष्ठाः यद्वा नानाविद्याः शिल्पविद्या - गानविद्या अविद्या-शास्त्रविद्या-नीतिविद्या कलाविद्याः ताः धरन्तीति नानाविद्याधराः विविधायुधभूषिताः विविधानि अनेकप्रकाराणि यान्यायुधानि तैर्भूषिताः मण्डिताः यद्वा विविधानि यानि आयुधानि सुवर्णविशेषाणि तैर्भषिताः शोभिताः अलङ्कारसुवर्ण तु शृङ्गीकन कमायुधमिति हैमः " परपचविनाशनैः परपक्षाणां शत्रुपक्षाणां विनाशनैः निराकरणैः मधुरां मनोहरां भक्ति प्रीतिं विदधुः कुर्वन्तिस्म ॥ ३३ ॥ समुद्रविजयं मेघनादं सानकदुन्दुभिः । गर्जितैस्तर्जयामास बृहद्रथमतङ्गजम् ॥ ३४ ॥ अन्वयः --- सानकदुन्दुभिः समुद्रविजयम् मेघनादम् बृहद्रथमतङ्गजम् गर्जितैस्तर्जयामास ॥ ३४ ॥ " व्याख्या — आनयति जिनेन्द्रदर्शनाय सोत्साहं करोतीति आनकः स चासौ दुन्दुभिः वाद्य विशेषश्चेति आनकदुन्दुभिः तेन सहितः इति सानकदुन्दुभिः आनकदुन्दुभिसहितवाद्यसमूहः मुद्रया सहितो विजयो यस्य स समुद्रविजयो मकरकेतनः काम इत्यर्थस्तम् मेघनादम्
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy