SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ माचार्यशीविजयातरिप्रणीता सरणी टीका. सर्ग-६ ३२९ धरां के वलिनश्चक्रुः परां विकृतिवर्जिताम् । पुण्यप्रवृति सत्कीर्ति-धवलां सकलां किल ॥ ३२ ॥ अन्वयः-केवलिनः पराम् विकृतिवर्जिताम् पुण्यप्रवृत्तिम् सत्कीर्तिधवला सकलां धराम् किल चः ॥ ३२ ॥ व्याख्या- ---केवलिनः केवलज्ञानशालिनः जिनेन्द्राः पराम् अ. तिशयिताम् विकृतिवर्जिताम् विकाररहिताम् निर्विकाराम् पुण्यप्रवृत्ति पुण्यस्य सुकृतेः प्रवृत्तिः प्रवर्तनं यत्र ताम् सत्कीर्तिधवलां सती शोभना चासो कीर्तिः सत्कीर्तिस्तया धवलामवलक्षाम् अथवा सतां सजनानां या कीर्तिः तया धवलाम् प्राप्तप्रकाशाम् सकलाम् निखिलाम् धराम् पृथ्वीम् चक्रुर्विदधुः किल निश्चयेन विदधन्तिस्म । अत्र केवलिनः इत्यस्य मिन्नार्थोऽपि, यथा केवलिनः केवलज्ञानवतो जिनेन्द्रस्य धराम् तदधिष्ठानभूमिम् के केऽपि वलिनः वायव इत्यर्थः ।। अथवा के आत्मनि बलवन्तः आत्मज्ञानवन्तः अथवा के कामतंत्रे वलिनः काम. जयिनः यद्वा के शरीरे वलिनः शारीरिकममत्वरहिताः “अनादरे सप्तमी" यद्वा के मनसि बलिनः जितेन्द्रियाः मनोजयेन सर्वेन्द्रियजयो भवति यद्वा इन्द्रियाणां मनसः प्राधान्यादिति भावः “क इति ब्रह्मणि वायौ आत्मनि कामतंत्रे देहे मनसि चेति शब्दस्तोममहानिधिः " ॥ ३२ ॥ रामकृष्णपक्षे-के केऽपि वलिनो बलवन्तो रामादयः कृष्णादयो वा परामुत्कुष्टां विकृतिवर्जितां निर्विकाराम् पुण्यप्रवृत्तिं पुण्यप्रचाराम् पवित्राचाराम् सत्कीर्तिधवलाम् सत्कीर्तिस्फीतां सकलां कृत्स्नाम् धराम् पृथ्वीम् चक्रुः विरचन्तिस्म, श्लेषः ॥ ३२ ॥ नानाविद्याधरास्तत्र विविधायुधभूषिताः । विदधुर्मधुरां भक्तिं परपक्षविनाशनैः ॥ ३३ ॥ .
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy