________________
३२०
महोपाध्यायश्री मेघविजयगणिविरचिते सससन्धानमहाकाचे
.......varuvarnaran.
वृन्तस्य कुसुमस्य वर्षाः व्यधुः विदधतिस्म ।।
रामकृष्णपक्षे । बहुहेतिभिरस्त्रैः विक्षिसः प्रयोजित करणैरनेकशस्त्रप्रयोगैः विपक्षपक्षे शत्रुपक्षे अवधिमानम् अन्तम् विनाशमित्यर्थः प्रपन्ने गते प्राप्ते सति सुमनसः पुष्पस्य वर्षाः वृष्टीः व्यधुः अकार्युः देवा इति शेषः ॥ ३० ॥ ये दीक्षिता वीक्षितास्ते मण्डलामविशारदाः । नारदा अप्युपाजग्मुः स्वामिनं द्रष्टुमुत्सुकाः॥ ३१ ॥
अन्वयः-ये मण्डलायविशारदाः वीक्षिताः ते दीक्षिताः स्वामिनं द्रष्टुमुत्सुका नारदा अपि उपाजग्मुः ॥ ३ ॥
व्याख्या-ये दीक्षिताः लब्धदीक्षा वीक्षिताः विशेषेण ईक्षिताः अवलोकिताः अथवा वीक्षम् विस्मयम् इताः प्राप्ताः जातविसया ते स्वामिनम् प्रभुम् जिनेन्द्रम् द्रष्टुम् दर्शनाय उत्सुका उत्कण्ठिताः मण्डलायविशारदाः मंडलाने राजमण्डलाअभागे विशारदाः प्रगल्भाः यद्वा मण्डलाग्रे समवसरणमण्डले विशारदा विचक्षणाः नारदाः मुनिविशेषाः अथवा नारम् जलम् ददातीति नारदस्ते मेधकुमाराः अथवा नरम् अज्ञानम् यति खण्डयतीति नरदस्स एव नारदस्ते अज्ञाननाशका मुनिविशेषाः यद्वा नरं ज्ञानं ददतीति नरदास्त एव नारदा ज्ञानदायिनः तेऽपि उपाजग्मुः आययुः ।।
रामकृष्णपक्षे-ये दीक्षिताः संग्रामदीक्षामाताः रणाङ्गणगताः ते वीक्षिताः दृष्टाः मण्डलायविशारदाः मण्डलस्य समूहस्य अग्रः श्रेष्ठः तसिन् विशारदाः श्रेष्ठाः प्रगल्भाः नारदाः खनामख्यातविशेषाः ।। स्वामिनम् रामम् कृष्णश्च द्रष्टुमवलोकयितुमुत्सुकाः उत्कंठिताः उपा जग्मुरागतवन्तः ॥ ३१ ॥