SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ आचार्य श्रीविजयामृतसूरिप्रणीता सरणी टीका, सर्ग- ६ ११९ यद्वा दक्षाः जिनेन्द्रविषयकातिशयभक्तिमन्तः यक्षाः देवविशेषाः विशालशालरचनाः विशालाना शालानां रत्नस्वर्णरूप्यमयानां प्राका. रत्रयाणां या रचनानिर्मितिः ताः चत्यपादपसम्पन्नाः चैत्याभिधानो यः पादपः अशोकवृक्षः तेन सम्पन्ना सहिता सभा इति शेषः वितेनिरे विस्तारयामासुः ॥ २८ । नीराजनक्रियाप्यर्चानुरागेण विधीयताम् । विधेयास्त्राद्युपास्थायेत्यूचे वाग् विजयैषिभिः ॥ २९ ॥ अन्वयः-विधेय? अस्त्रापास्थाय अनुरागेश नीराजनक्रियाप्यर्चा विधीयताम् इति विजय षिभिः वाम् उचे ॥ २९ ॥ व्याख्या-हे विधेय! विधानकारक ! अस्त्राद्युपास्थाय अस्त्रा. दिनिराकृत्य अनुरागेण प्रेम्णा नीराजनक्रिया आरात्रिकक्रिया अर्चा पूजापि प्रभोरिति शेषः विधीयताम् क्रियताम् इति एवं प्रकारेण विजयैषिभिः विजयेच्छुभिर्देवैरिति शेषः वाम् उचे जगदे ।। २९॥ रामकृष्णपक्षेऽप्येवमेव । विपक्षपक्षे विक्षितैः करणैबहुहेतिभिः । प्रपन्नेप्यवधिमानं वर्षाः सुमनसो व्यधुः ॥ ३० ॥ अन्वयः-बहुहेतिभिः करणैर्विपक्षपक्षे विक्षिप्तः अवधिमानम् प्रपन्ने अपि सुमनसो वर्षा व्यधुः ॥ ३० ॥ व्याख्या-प्रपन्ने स्थिते विपक्षपक्षे समवसरणभूमौ विघ्नभूते तुषकण्टकशर्करादिरूपे विद्यमाने सति बहुहेतिभिः विपुलतेजस्कैः विक्षिप्तैः विक्षेपकारकैः निःसारकैः करणैः करोतीति करणो वायुः तैः वायुकुमारः अवधिमानम् सर्वत एकयोजनम् पृथ्वीतलम् निर्मले कृते सतीति शेषः सुमनसः सुष्ठ मनो येषान्ते सुमनसः देवाः मेघकुमाराः वर्षाः सुगन्धिजलवृष्टीः व्यधुः चक्रुः यद्वा सुमनसः अधोमुख
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy