SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ ३१८ महोपाध्यायश्रीमेघविजयगणिविरचिते सप्तसन्धानमहाकाग्वे स्याद्वादपद्धत्या अनेकान्तवादसरण्या मार्गेण जैनशासनानुसारेणेत्यर्थः मधुरम् सर्वसाधारणरोचकम् वचः वचनम् जगाद उपदिदेश ॥ रामकृष्णपक्षे-कलीश्वरताम् कलेयुद्धस्य ईश्वरतां विजयतां मुख्यतां वा प्राप्तः स रामः कृष्णो वा लंकारवसमाश्रितः लंकायाः रावणराज्यधान्याः यो वः शब्दस्तमाश्रयतीति तथा लंकाशब्दश्रोता अथवा लंका इति रवः अभिधानं यस्य तन्नगरसमाश्रित: लंकाधिष्ठितः सन् अन्यत्र अलंकारवशमाश्रितः अनेककौस्तुभादिभूषणवशगः स्वामी पृथ्वीपतिः स्याद्वादपद्धत्या अनेकान्तवादरीत्या मधुरं वचः श्ललं वचनं जगाद उचे ॥ २७ ॥ विशालशालरचना व्यूहरक्षाविशेषिताः। चैत्यपादपसंपन्ना दक्षा यक्षा वितेनिरे ॥ २८ ॥ अन्वयः - दक्षा यक्षाः चैत्यपादपसम्पन्नाः व्यूह रक्षाविशेषिताः विशालशालर चनाः वितेनिरे ॥ २८ ॥ व्याख्या--दक्षाः प्रवीणाः पटवः यक्षाः देवविशेषाः चैत्यपा. दपसम्पन्नाः चैत्यपादपेन महावृक्षेण देवाधिष्ठानवृक्षण वा यद्वा जिनसभास्थपादपविशेषेण अथवा चैत्येन देवस्थानेन पादपेन च सम्पन्नाः सहिताः न्यूहरक्षाविशेषिताः व्यूहस्य जनसमूहस्य या रक्षा निर्वाधस्थितिस्तया विशेषिताः शोभिताः जनानामसंकीर्णस्थितिविशेषमण्डिता इत्यर्थः विशालसालरचना विशालः प्रकाण्डो यः शालः गेहः तस्य रचना निर्माण अथवा विशेषेण शालते शोभते यत् शालम् गृहम् तस्य रचना अथवा विशालो महान् यः शालः प्राकारः तस्य रचना यद्वा विशालः यः शालः वृक्षस्तस्य रचना विधानानि वितेनिरे विस्तारयामासुः यक्षास्तत्र देवा देवस्थितियोग्यां सभां वितेनिरे ।। रामकृष्णपक्षेऽपि साधारणम् ॥
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy