________________
आचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका, सर्ग-६
अन्वयः --- लोकालोकप्रकाशिनि सकलेऽध्यक्षे सम्पन्ने सति दुर्ज्ञेयवारका: देवदुंदुभयः दिवि नेदुः ॥ २६ ॥
३१७
व्याख्या - लोकालोकप्रकाशिनि लोक्यते दृश्यते सर्वैरिति लोकः सर्वप्रत्यक्षः न लोक्यते प्रत्यक्षतया न गृह्यते जनैरित्यलोकः तयोद्वन्द्वः लोकालोकम् प्रकाशितुशीलमस्येति लोकालोकप्रकाशी तस्मिन् करामलकवत् परोक्षापरोक्ष सकलप्रकाशकारके सकलझाने केवलज्ञाने सम्पन्ने प्राप्ते सति प्रभोः केवलज्ञाने समापन्ने सति दिवि देवलोके आकाशे वा दुर्भयवारकाः दुर्नीति निवारकाः देवदुन्दुभयः देवतूर्य्याणि नेदुः सस्वनुः प्रभौ केवलज्ञानोत्पन्ने सति हर्षादेवानाम् वाद्यानि वदन्तिस्मेति भावः ॥
रामकृष्णपक्षे-सकले समग्रे अध्यक्षे नृपस्य छत्र धारणादिव्यवहारेऽधिकृते अधिष्ठिते सति कथंभूते लोकालोकप्रकाशिनि सन्निहितासन्निहित प्रदेशोद्योतकारके सर्वत्र व्यापकशासनशासिते दुर्नयवारका दुराचारनिवारका देवदुन्दुभयः राजतूर्याणि दिवि आकाशे नेदुः शब्दस्याकाशाश्रयत्वादाकाशे सस्वनुः ।। २६ ।।
स- कलीश्वरतां प्राप्तोऽलङ्कारवशमाश्रितः ।
स्वामी जगाद स्याद्वादपद्धत्या मधुरं वचः ॥ २७ ॥
अन्वयः - - सकलीश्वरतां प्राप्त: अलंकारवशमाश्रितः स्वामी स्याद्वादपद्धत्या मधुरं वच: जगाद ॥ २७ ॥
व्याख्या - सकलीश्वरतां प्राप्तः सकलम् समस्त मस्त्यस्मिन्निति सकली सकलिनामीश्वरः सकलीश्वरस्तस्य भावस्तत्ता ताम् समग्रप्रभुताम् प्राप्तः अधिगतः समस्त विश्वप्रभुः अलंकारवशमाश्रितः अलंकाराणि भूषणानि वसन्ति अधितिष्ठन्त्यस्मिन्निति इत्यलंकारवशस्तम् अनेकशोऽलंकृतसमवसरण भूमिमाश्रितः समधिष्ठितः स्वामी जिनेन्द्रप्रभुः