________________
३१४ महोपाध्यायश्रीमेघविजयगणिघिरचिते सप्तसन्धानमहाकारने येन स्वयं संबोधेन स्वामिनश्च-रणाश्रयः। कृतस्तेनाद्वैतभावोऽन्वभाव्यत स्वनन्दनात् ॥२३॥
अन्वयः-येन स्वयं सम्बोधेन स्वामिनः चरणाश्रयः तेनाद्वैतभावः कृतः स्वनन्दनात् अन्वभाव्यत ॥ २३ ॥
व्याख्या-येन स्वयं सम्बोधेन येन यद्रूपेण स्वयमात्मनैव न तु कस्याप्युपदेशेन सम्बोधेन सम्यक्ज्ञानेन स्वामिनः जिनेन्द्रस्य चरणाश्रयः चरणस्य चारित्र्यस्य आश्रयः ग्रहणम् तेन तद्रूपणैव अद्वैतभावः द्विधा इतं मेदं गतं द्वीतम् तस्य भावः द्वैतम् तन्नास्ति यस्मिन् स अद्वैतः स चासौ भावश्चेति अद्वैतभावः सजातीयादिभेदशून्यके बलखात्मानुभवः कृतः विहितः स्वनन्दनात् स्वम् आत्मानम् नन्दयति कृतार्थयतीति स्वनन्दनस्तस्मात् यद्वा स्वस्मिन् आत्मनि नन्दति स्वात्मानुभवेन तुष्यतीति स्वनन्दनस्तस्मात् अन्वभाव्यत अयुज्यत ।
रामपक्षे-येन सम्बोधेन येन हनुमद्दौत्येन सीतास्थितिसंबोधेन सीता रावणगृहे तिष्ठतीति ज्ञानेन स्वामिनो रामस्य च रणाश्रयः रणस्य संग्रामाङ्गणस्य आश्रयः आश्रयणम् युद्धभूमिगमनम् तेन युद्धभूमिगमनेन अद्वैतभावः तथा सर्वतः स युयुधे यथा रणे रामाद्वैतभावः कृतः प्रतिपक्षिभिः यत्र तत्र राममेवाक्षैष्ट इति रामाद्वैतमभूदिति भावः खनन्दनात् स्वम् आत्मानन्नन्दयति हर्षयतीति स्वनन्दनो लक्ष्मणस्तसात् अन्वभाव्यत अन्वसर्यत लक्ष्मणस्तदान्वमरदिति भावः ॥
यहा येन संबोधेन कामपरतंत्रेण स्वामिनो राक्षसराजस्य रावणस्य च रणाश्रयः रणगमनम् तेन रावणेन आ समंतात द्वैतभावः रामेण सह विपक्षभावः कृतः रामेण सहयोध्धुम् प्रववृते स्वनन्दनात् स्वस्यास्मनो नन्दनस्तनयः 'नन्दनः पुनः उद्वहोऽङ्गात्मजः सूनुस्तनयोदारकः मुत इति हैम:" तस्मान्मेघनादात् अन्वभाव्यत अनुगतः ॥