SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ भाचार्यश्रीविजयामृतरिप्रणीता सरणी टीका. सर्ग- ३.५ marrrrrrr... कृष्णपक्षे-येन कुष्योण सम्बोधेन सम्यक् ज्ञानेन स्वामिना सतोऽपि रणाश्रयः रणस्य संग्रामस्य आश्रयः गमनम् तेन कृष्णेन आसमन्तात् द्वैतभावः भेदबुद्धिः एते मम शत्रव इति मतिः कृतः विहितः स्वनन्दनात् स्वतनयात् प्रद्युम्नादितः अन्वभाव्यत अनुगतो जात इत्यर्थः ।। २३ ॥ यो वैपरीत्यादीशेऽपि कृतकैतवसंगरः । तं मनोरथतो दूरान्मने व्यसनिनं प्रभुः ।। २४ ॥ अन्वयः-- यः वैपरीत्यात् ईशेऽपि कृतकैतवसंगरः तम् व्यसनिनम् प्रभुः मनोरथतो दूरात् मेने ॥ २४ ॥ व्याख्या-यो मोहादिर्व्यसनः ईशेऽपि जिनेन्द्रेऽपि वैपरीत्यात अयोग्यत्वात् कृतकैतवसंगरः कृतो विरचितः कैतवसंगरः कपटयुद्धो येन स सर्वपूज्ये तसिन् छद्मयुद्धमकृतेति भावः, विहितछायुद्धः तम् व्यसनिनम् व्यसनासक्तम् मोहादिकम् प्रभुर्जिनेन्द्रः मनोरथतो मनोस्थादपि दुरात् पृथक् मेने बुबुधे मोहादिर्न कदाचित् प्रभोमनोरथ पथपथिको बभूवेति भावः ॥ रामपक्षे-यः रावणः ईशे राजनि रामे वैपरीत्यात् अनपराधादपि कृतकैतवसंगरः विरचितान्तर्धानादियुद्धः तम् रावणम् व्यसनिनं व्यसनासक्तम् प्रभुः रामः मनोरथतः मनोरथादपि सीतालाभरूपाभिलापात् दुरात् पृथक् मेने मन्यतेस । कृष्णपक्षे-यः जरासंधः ईशेऽपि कृष्णेऽपि कृतकैतवसंगरः विहितकपटयुद्धः तम् व्यसनिम् व्यसनाधीनम् मनोरथतः अभिलाषात् कृष्णपराजयरूपात् दूरात् मेने बहुदूरम्मनुतेस ॥ २४ ॥ आप्तः पुरिमतालाख्यसख्योपवनधारणाम् । काञ्चनाद्रिक्रियामाधात् समाधानोपदेशतः ॥ २५ ॥
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy