________________
भाचार्यश्रीविजयातसूरिप्रणीता सरणी टीका. सर्ग-६ ३३ रामकृष्णपक्षे-मुक्ते अविश्वास्येन परित्यक्ते अमुक्ते संग्राह्ये विषये विमृश्यैव पुनः पुनर्विचार्यैव बलम् सैन्यम् आयोजयन् संगृह्णन् जाप्यस्थिराशयः जाप्ये मननीये स्थिराशयः निश्चलचित्तः सुनिश्चलविचारवान् चेतः प्रसरम् स्वमनोबलम् प्राप्य अधिगत्य जयमोत्कर्ण्यम् लभेत आसादयेत ॥ २१ ॥ वीतरागः सदशमा-दादित्यरुचिरूदगतः । जितकाशी सुनासीर-संगमात समदीप्यत ॥ २२ ॥
अन्वयः-वीतरागः सदशमात् आदित्यरुचिः उद्गतः जितकाशी सुनासीरसंगमात् समदीप्यत ॥ २२ ॥
व्याख्या-वीतरागः विशेषेण इतः गतः रागः सांसारिकवि. षयवासनाभिलाषो यस्मात् स रागरहितः सदशमात् दशमगुणस्थानमारभ्य आदित्यरुचिः दिवाकरकांतिः उद्गतः प्रोद्भूतः दिवाकर इव सर्वप्रकाशकारकः सर्वेपर्यवेक्षक इति भावः अत एव जितकाशी जितेन जयेन काशते दीप्यते इति जितकाशी प्राप्तोत्कर्षः सुनासीरसंगमाव महेन्द्रसंगात् तदानीमिन्द्रः समभ्येति इति तत्संगमात् सम. दीप्यत प्रदीप्तो जात इत्यर्थः॥
रामकृष्णे यथा शणु । विशेषेण इतः प्राप्तः रागः शत्रुविषयकाप्रीतियन स वीतरागः सदशमात् सीदत्यसिन्निति सद् युद्धम् तस्य अशमात् अशान्तेः अनिवत्तनात् आदित्यरुचिः सूर्यकांतिः उद्गतः उद्भूतः सूर्य इवासह्यतेजा अभवत् जितकाशी जयाभिलाषी सुनासीरसंगमात् सुष्टु नासीरम् अग्रगसैन्यं यस्य स सुनासीरः "नासीरम् अग्रसरे सेनामुखे चेति शब्दस्तोममहानिधिः" तस्य संगमात् संमेलनाव समदीप्यत अरोचत ॥ २२ ॥