________________
र महोपाध्याय श्रीमेघविजयगणिविर निते सप्तसन्धानमहाकाम्ये युक्तम् पुरकृत्य अग्रे विधाय तदधः स्थायिभावनाम् तद्भिन्नरूपविचारणाम् तिरस्कृत्य निरस्य धीराः किन्नकुटुंरित्युतरेण सम्बन्धः१९ यत् सूक्ष्मसंपरायस्य स्थाने बादरसंगते । संजाते-नवमस्थाने धीराः कुर्युन किं पुनः ॥ २० ॥
अन्वयः यत् सूक्ष्मसंपरायम्य बादरसंगते स्थाने नवमस्थाने संजाते धीराः पुनः किन्न कुप्युः ॥ २० ॥
व्याख्या-यत् तत्पश्चात् बादरसंगते नवमगुणस्थाने जाते बादरसंपरायाभिधाने नवमगुणस्थानसहिते सूक्षपसंपरायस्य स्थाने तन्नामके दशमे गुणस्थानके संजाते प्राप्ते सति धीशः विज्ञाः किम्पुन: किं किं न कुर्यः तत्स्थानं प्राप्य काँस्कान् मोहनीयकर्मभेदान् न हन्यु: सर्वानेव विजितान् विदध्युरिति भावः ॥
रामकृष्णपक्षे—अदरसंगते भयरहिते सूक्ष्मसंपरायस्य गुप्तयुद्धस्य " युद्धायत्योः संपराय इत्यमरः " स्थाने अनवमस्थाने अरक्षके स्थाने संजाते प्राप्ते सति धीराः यद्धकौशलिनः किन्न कुर्युः सर्वम् संपादयेरन् ॥ २० ॥ मुक्तेऽमुक्ते विमृश्यैव बलमायोजयञ्जयम् । लभेत चेतःप्रसरं प्राप्य जाप्यस्थिराशयः ॥ २१ ॥
अन्वयः- मुक्त अमुक्ते विमृश्यैत्र बलम् आयोजयन स्थिराशयः चेतः प्रसरम् प्राप्य' जयम् लभेत ॥ २१ ॥
व्याख्या-मुक्त परित्यक्ते अमुक्ते अपरित्यक्ते संगृहीते वि. मृश्य विचार्य अयं त्याज्योऽयं संग्राह्य इति सम्यग् विविच्य बलम् स्वशक्तिम् आयोजयन् संचिन्वन् जाप्यस्थिराशयः जापे जपनीये निजमनने स्थिराशयः चेतः प्रसरम् चित्तप्रकाशम् प्राप्य लब्ध्वा जयं विजयम् लभेत प्राप्नुयात् ॥ २१ ॥