SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ आचार्य श्री विजयातसूरिप्रणीता सरणी टीका, सर्ग - ६ अन्वयः - क्वचिदाःमैषणपरम् क्वचित् एकं द्रव्यं विदद् धैर्यात् गुणं वि. भावयन्स पर्याये रमतेस्म ॥ १८ ॥ ३११ व्याख्या—स जिनेन्द्रः क्वचित कुत्रापि आत्मैषणपरम् आत्मनः स्वस्वरूपस्य यदेषणम् नवेपणम् तत्परम् तदधीनम् क्वचित् क्वापि एकम् द्रव्यम् द्रव्यपदार्थम् विदन् जानन् धैर्यात् धीरतातः गुणम् द्रव्यगुणम् विभावयन् विचारयन् पर्याये साधुधर्मे च रमतेस्म विह रतिस्म ॥ १८ ॥ रामकृष्णपक्षे – आत्मनः देहस्य " आत्मखरूपे यत्ने देहे मानसे बुद्धाविति शब्दस्तोम महानिधिः " रुषणमन्वेषणम् सर्वतोरक्षणम् तत्परः शरीररक्षा सावधानः यद्वा आत्मनः स्वस्य यदेषणः लोहमयो वाणस्तत्परः बाणप्रियः क्वचनापि एकं द्रव्यम् प्रधानभूतं तद्द्रव्यम् धनादिकम् विदन् लभमानः धैर्यात् गुणम् धनुर्वीम् विभायन् विचारयन् पर्यालोचयन् पर्याये अवसरे ''पर्यायोऽनुक्रमे प्रकारे अवसरे निर्माण इति शब्दस्तोममहानिधिः" रमतेस्म क्रीडतिस्म ।। १८ ।। पृथक्त्वमवी (वि)चारं सवितर्कगुणान्वितम् । पुरस्कृत्य तिरस्कृत्य तदधःस्थायिभावनाम् ॥ १९ ॥ अन्वयः... अपृथक्त्वम् अविचारम् सवितर्कगुणान्वितम् पुरस्कृत्य तदधः स्थायिभावनाम् तिरस्कृत्य धीराः किन्नकुर्युरित्यप्रेणान्वयः ॥ १९ ॥ व्याख्या -- अपृथक्त्वम् अविचारम् अविचारशुक्रुध्यानविशेषः तम् सवितर्कगुणान्वितम् सवितर्कगुणसहितम् पुरस्कृत्य अग्रे कृत्वा तदधः स्थायिभावनाम् तन्नीचस्थबुद्धिम् तिरस्कृत्य निवार्य धीराः किन्न कुर्युरित्युत्तरेणान्वयः ॥ रामकृष्णपक्षे - अपृथक्त्वम् अभिन्नत्वम् अविचारम् विचारराहित्यम् सवितर्कगुणान्त्रितम् सवितर्कगुणेन सदनुमीतगुणेन अन्वितं
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy