________________
३० महोपाध्यायश्रीमेधाविजयगणिविरचिते सप्तसन्धानमहाकाग्थे दृष्टोऽन्यः क्वापि गूढात्मा सर्वाशाजयकर्मणा । गणाश्रितः स्वभावैक-सपृथक्त्ववितर्ककृत् ॥ १७ ॥
__ अन्वयः-सर्वाशाजयकर्मणा गूढात्मा कापि अन्यैः दृष्ट: गणाश्रितः स्वभावकसपृथक्त्ववितकृत् ॥ १७ ॥
व्याख्या सर्वाशा जयकर्मणा सर्वाश्च ता आशा मनोरथाः तासां जयकर्मणा विजयेन विजितत्वेन परित्यागेनेत्यर्थः "कांक्षा शंसा गर्धवांछाशेच्छेहातृण्मनोरथा इति हैम:" यद्वा सर्वाशानां समस्तदिशानां जयकर्मणा स्वविशुद्धाचारेण कैश्चिदपि विषयजालैरपराजितेनेति भावः "काष्ठाशादिक हरित् ककुविति हैमः" गूढात्मा गूढः गुप्त आत्मा यस्य स केनापि तत्त्वेनाग्रहीतः अलक्षितः क्वापि कुत्रापि अन्यैः कैश्चिन्महाभाग्यशालिभिः दृष्टः तत्स्वरूपेण विज्ञातः गणाश्रितः गणैः साधुसंधैराश्रितः कृताश्रयः स्वभावकसपृथक्त्ववितर्ककृत स्वभावेन स्वप्रकृत्या एक: अनाश्रित इति स्वभावैकः स चासौ सपृथक्त्ववितर्ककृच्चेति स तथोक्तः अपूर्वकरणमारुह्य सविचारपृथक्त्ववितर्कयुक्तशुक्लथ्यानं प्रापेति भावः लोभस्य जयाय पृथक्त्वस्य खण्डं खण्डं विधाय सपृथक्त्ववितर्कनामकशुक्लध्यानविशेषकर बभूवेति तत्वम् ।।
रामकृष्णपक्षे- गूढात्मा अप्रकटितस्वसामर्थ्यः शत्रुभिः कापि युद्धसमये दृष्टः अवलोकितः सर्वाशाजयकर्मणा सर्वदिविजयेन अथवा युद्धसमये सर्वदिक्षु प्रहारविधानेन जयकर्मणा गणेन सैन्येन आश्रितोऽधिष्ठितः स्वभावकसपृथक्त्ववितर्ककृत् स्वभावेनैव शत्रूणां पृथक्त्वस्य परस्परभेदस्य वितर्ककृत विचारकारकः आसीदिति शेषः१७ क्वचिदात्मैषणपरं द्रव्यमेकं क्वचिद्विदन् । गुणं विभावयन् धैर्यात् पर्याये रमतेस्म सः ॥ १८॥