________________
भाचार्यश्रीविजयामृतरिप्रणीता सरणी टीका, सर्ग-६
१.९
जापेन विपर्यज्ञानस्थितमानसान अनुबन्धिनः केवलं मुखप्रेक्षितयाsनुगतान न च प्रीत्येति भावः क्लीवान् तृतीयाप्रकृतीन् स्वीसंप्रयोगेषु लीना स्वीपराधीनान् यद्वा स्त्रीसंगतान् पुरुषार्थविरहितान् त्यक्त्वा निरस्य सुस्थिरः केनाप्यकंप्यस्तस्थौ स्थितः ॥ १५ ॥ हास्यादिषट्कव्यावृत्त्या प्रकृत्यास्थानयोग्यधीः । सपौरुषं रुषं मानं मायां प्रक्षिप्य मार्गभाक् ॥ १६ ॥
अन्वयः-हास्यादिपटक ब्यावृत्या प्रकृत्यास्थानयोग्यधी: स पौरषम् रुषम् मानम् मायाम् प्रक्षिप्य मार्गभाक् ॥ ६ ॥
व्याख्या-स जिनेन्द्रः हास्यादिषट्कव्यावृत्त्या हासो रत्यरती भीतिर्जुगुप्ज्ञा शोक एव चेति निरुक्तपदकस्य व्यावृया परित्यागेन प्रकृत्यास्थानयोग्यधीः प्रकृतिः कर्मस्वभावः तस्या आस्थाने गुणस्थाने योग्या निरन्तरा धीर्यस्य स तत्स्थानाहबुद्धिः पौरुषम् बाह्यशौर्यम् रुषम् क्रोधम् मानम् अहंकारम् मायाम् कापट्यम् मिथ्याबुद्धिमित्यर्थः प्रक्षिप्य क्षयं कृत्वा मार्गभाक् मोक्षमार्गभाक् जात इति शेषः पूर्व श्लोके स्त्रीभेदनपुंसकभेदश्च त्यक्त्वेत्युक्तम् इदानीम्पुरुषभेदश्च तत्याजेत्युक्तम्भवतीति भावः ॥
रामकृष्णपक्षे-हास्यादिषटकानां हासक्रोधशोकमयजुगुप्साविसयरूपाणां स्थायीभावानां व्यावृत्या निवारणेन प्रकृत्या स्वभावेन स्थाने प्रशमस्थाने योग्या निर्मला धीयस्य स योग्यस्थानाभिनिवेशनिमलचेतस्कः रामः कृष्णो वा सपौरुषम् सबलं यथास्यात्तथा रुषम् मन्युम् मानम् "स्वाभीष्टश्लेषवीक्षादिविरोधी मान उच्यते" इत्युक्तलक्षणम् , मायाम् कापटयं च प्रक्षिष्य निराकृत्य मार्गभाक् वीरमार्गभाक् युद्धशाखानातपथप्रवृत्तो बभूवेति शेषः ॥१६॥