________________
३०६ महोपाध्यायश्रीमेघविजयगणिविरचिते सप्तसन्धानमहाकाव्ये
व्याख्या-अङ्ग इति संबोधने संबोधनेऽङ्गभोःप्पाडिति हैमः" अधिपस्थितिम् अधिपाति सर्वतो जीवान् रक्षतीति अधिपः जिनेन्द्रः प्रभुः तस्य स्थितिः स्थीयतेऽस्यामिति स्थितिः प्रवृत्तिः प्रत्रज्यारूपा मर्यादा वा तदधिष्ठितभूमि; तां ग्रहीतुं प्राप्तुं अधिष्ठा. तुम्वा आर्जुनी परिशुद्धा " वलक्षो धवलोऽर्जुन इत्यमरः" कांक्षा वाञ्छा प्रवृत्ता कथिता जिनेन्द्राधिष्ठिताम्प्रवृत्तिमुपलब्धं शुद्धभावना विधेया तथाहि बकवृत्ति बकस्य पक्षिविशेषस्य या वृत्तिः स्थितिः बको जलाशये मत्स्यादिजलचरजन्तुं ग्रहीतुं ध्यानमग्न इव तिष्ठति निश्चलतया परन्तु तस्य हृदये हिंसैव गरीयसी प्रवृत्तिरिति तां वृत्तिम् छद्मप्रवृत्तिम् पराकृत्य निर्वास्य भीमवृत्तेः भीमस्य शिवस्य वृत्तिनिश्चलशु
ध्यानस्य वृत्तिरिववृत्तिर्यस्य तस्य शुद्धाचारस्य जयोऽभवत् शुद्धाचा. रस्यैव जिनेन्द्राधिष्ठितस्थितौ प्रवृत्तिरूपा विजयप्राप्तिर्जातेति भावः । अर्वाग्दृष्टि कृतिकः स्वार्थसाधनतत्परः॥ शठो मिथ्याविनीतश्च बक. वृत्तिरुदाहृतः' इति शब्दस्तोममहानिधिः ॥
रामपक्षे---अधिपस्य रावणस्य स्थितिम् स्थानम् ग्रहीतुम् प्राप्तुम् आर्जुनी अर्जुनस्येयमार्जुनी अर्जुनसम्बधिनी प्रभुत्वप्रचुरा कांक्षा वांछा विधेयत्वेन प्रवृत्ता प्रवृत्तिविषयीकृता बकवृत्तिम् शैथिल्यप्रवृत्तिम् पराकृत्य निवयं भीमवृत्तेः उद्धृतवृत्तेर्जयोऽभवत् शत्रुषु शिथिलस्य नैव जयः किन्तु भीमवृत्तस्यैवेति तामाश्रयेदिति भावः ।।
कृष्णपक्षे--- अङ्गाधिपस्य कर्णनपने स्थितिम् स्थानम् अधिष्ठानं ग्रहीतुम् आमादितुम् आजुनी अर्जुनसम्बन्धिनी कांक्षा स्पृहा प्रत्ता जाता "जरासंधकृष्णसंग्रामे कर्णमन्वेष्टुम् अर्जुनस्य कांक्षाऽभ. वदित्यर्थः ” बकस्य राक्षसविशेषम्य या वृत्तिः सत्ता तां पराकृत्य पृथकृत्य भीमवृत्तेः भीमस्य वृकोदरस्य वृत्तिापारस्तस्याः भीम. व्यापारस्य जयोऽभवत् विजयो जातः बकासुरनिहत्य भीमसेनस्य जयो जात इत्यर्थः ॥ १२ ॥