________________
आचार्य श्री विजयामृत रिप्रणीता सरणी टीका, सर्ग - ६
अन्वयः - इन्द्रः कामस्य कामपि मीलां छेत्तुं न सोद्यमः अनसः कन्दर्पः मनसः रोधने कन्दर्प बहेत् ॥ ११ ॥
३०५
व्याख्या - इन्द्रः परमैश्वर्यसम्पन्नो देवेन्द्रः कामस्य मदनस्य कामपि मीलां तन्द्रां सर्वविजयित्वान्निर्भयत्वाच्च सुखसुप्तिकाम् "तन्द्री निद्राप्रमीलयोरिति तन्द्री प्रमीलेति चोभयत्रामरः " छेत्तं भेत्तुनिराकर्तुमित्यर्थः न सोद्यमः न सव्यापारः तदीयतन्द्राभङ्गे सोद्यमोsपि कोपि नास्ति किम्पुनः समर्थ इति भावः अनसः न सः असः न असः अनसः साक्षात् कन्दर्पः मदनः तस्यानङ्गत्वेन तद्वारणं सुक रमित्याश्रित्य अनस इति पदेन स एव शरीरभृदेवेति कवेस्तात्पर्यम् मनसः वीतरागस्य जिनेन्द्रस्येति शेषः रोधने स्वाधीने करणे कन्दमहंकारं वत् धारयेत् जिनेन्द्राणां मनोऽन्यथा कर्तुन्न तस्य कोऽपि प्रभावस्तेषां मारजितत्वादिति भावः अत्र संभावनायां लिङ् ॥
"
रामकृष्णपक्षे -- इन्द्रः परमैश्वर्यवान् " राजा पतीन्द्रस्वामिना थार्या इति हैंमः " कामस्य स्वीयाभिलाषस्य “कागोऽभिलाषस्तर्षश्चेत्यमरः " कामपि मीलां मील्यते इति मीला "भावे गुरोश्च हल इत्यकारप्रत्ययस्ततष्टाप् ” तां मीलां प्रसक्तिं विषयप्रवृत्तिं छेत्तुं पृथक न सोद्यमः न सावधानः कन्दर्पः कं सुखं तेन तत्र वा हृप्यतीति " कर्त्त रिअच्" स सुखमनः अनसः स्वयं मनसो रोधने मनःप्रसक्तिनिवारणे कं दर्पमहकारं वदेत् न कमपि यः विषयप्रसक्तिं न रुणद्धि स मनसो रोधने कथं प्रभवेतेति भावः ॥ ११ ॥
।
ग्रहीतुमार्जुनी काङ्क्षा प्रवृत्ताङ्गाधिपस्थितिम् । बकवृत्तिं पराकृत्य भीमवृत्तेर्जयोऽभवत् ॥ १२ ॥
अन्वयः - अङ्ग ? अधिपस्थितिम् महीतुम् आर्जुनीं कांक्षा प्रवृत्ता चकवृत्तिम्, पराकृत्य भीमवृत्तेः जयः अभवत् ॥ १५ ॥