SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ ३०४ महोपाध्यायश्री मेधविजयगणिविरचिते सप्तसन्धानमहाकाम्ने रामकृष्णपक्षे-दुर्मनम् दुःसाल्यम् गजम् शत्रुहस्तिनम वारये संग्रामभूमौ निवारये अन्यत् पूर्ववचज्ज्ञेयम् ॥ ९ ॥ सदोपदेशनोद्देशात् स्फुरति स्वानगर्जिते । घटा गजानामगजा समजायत साप्यजा ॥ १० ॥ अन्वयः- सदोपदेशनोद्देशात स्वान गर्जिते स्फुरति अगजा गजानां घटा सापि अजा समजायत ॥ १० ॥ व्याख्या--मदोपदेशनोद्देशात् देशस्य समीपमुपदेशं सन्निहितप्रदेशं तत्र नुदति गच्छतीति नोदः "कर्त्तरिविच्” तस्य देशः स्थान तस्मात् सर्वदा सन्निहित प्रदेशगमनस्थानात् हेतोः स्वानगर्जिते मुष्ठ आनस्य अन्तस्थितप्राणवायोः गर्जिते नासिकोच्छ्वासे स्फुरति गमनपरिश्रमेणोच्छ्वासपवनप्रचलिते सति अगजानां पार्वतीयानां अगजा वृक्षजा वा घटा पंक्तिः सापि अजा निम्ना प्रभोश्छायाहेतोर्नीचैः समजायत अभवत् ।। अन्यपक्षे-सदोपदेशनोद्देशात् सदा सर्वदा यत् उपदेशनं अनु. शासनं हितकथनं तस्य उद्देशात् अनुसंधानात् स्वानगर्जिते निर्घोषस्तनिते स्फुरति स्फुरमाणे सति गजानां गजन्ति माद्यन्तीति गजाः मदोन्मत्ताः तेषां घटा संहतिरपि गजानां हस्तिनां अगजा पर्वतो. द्भवा एतेन मदोन्मत्तत्वं सूच्यते घटा पंक्तिरिव वानगर्जिते सारमेयवुक्के स्फूरति सति अजा छागी समजायत रामकृष्णयोः सच्छासनश्रवणान्मदोद्धूतानामपि जनानां संहतिः स्वानगर्जिते यथा गजपंक्तिः छागीव भयभीता भवति तथा भीता भवत् न च दुर्विनयमकार्षीत गजानां स्वानभीरुत्वं प्रसिद्धमेवेति भावः ॥१०॥ इन्द्रः कामस्य कामस्य मीलां छेत्तं न सोद्यमः । कन्दर्पः कं वहेदप रोधने मनसोऽनसः ॥ ११ ॥
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy