________________
भाचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका, सर्ग-६ ३०७ धर्मात्मजः खभावेन शल्यमुच्छेत्तुमाहतः । पुन्नागान मनसोद्दिश्य न-कुलस्य पराक्रमः ॥ १३ ॥
अन्वयः-धर्मात्मजः स्वभावेन शल्यम् उच्छेत्तुम् आइतः पुन्नागान् मनसा उद्दिश्य नकुलस्य पराक्रमः ॥ १३ ॥
व्याख्या-धर्मात्मजः साक्षाद्धर्मतनूजः यद्वा धर्मप्रवर्तकत्वात साक्षाद्धर्मावतारः स्वभावेन निसर्गत एव शल्यम् पापम् उच्छेत्तुम् उद्धत्तुम् आहतः कृतादरः उद्युक्तः नकुलस्य कुलाभिमानरहितस्य जिनेन्द्रस्य पुन्नागान् पुंसु नाग इवेति पुन्नागस्तान् पुरुषश्रेष्ठान् सर्वतोऽधिकान् मनसा उद्दिश्य अभिलक्ष्य प्राप्यत्वेन स्थिरीकृत्य पराक्रमः वीरता सर्वोचतालाभायप्रक्रमत इत्यर्थः ॥
रामपक्षे-धर्मात्मजः पुण्यात्मजः रामः स्वभावेन प्रकृत्या शल्यम् शल्यभूतं रावणरूपशत्रुम् उच्नेत्तुमुद्धत्तम् आदृतः कृतादरः सावधानः नकुलस्य नास्तिकुलम् गृहं यस्य तस्य 'कुलं वंशे देशे गृहे इति शब्दस्तोममहानिधिः" तदानीं रामस्य वनवासिता गृहामाव: पुन्नागान् पुरुषश्रेष्ठान् रावणादीन उद्दिश्य अभिलक्ष्य पराक्रमः वीरता स्वभावमेव महतां यन्महता विरोधः शल्योद्धारे प्रवृत्तिश्चेति तत्त्वम् ।।
कृष्णपक्षे-धर्मात्मजः युधिष्ठिरः स्वभावेन स्वत एव शल्यम् शल्यनामानम् विपक्षनृपम् उच्छेत्तुम् निराकर्तुम् प्रहत्तुमित्यर्थः आ. दृतः कृतनिश्चयः स्वयमेव तद्धनने सादराभिनिवेशवान् नकुलस्य तन्नामकचतुर्थपाण्डवस्य पुन्नागान् पुमानाग इव इति पुन्नागः पुरुषश्रेष्ठस्तान मनसा उद्दिश्य हृदयेनाभिलक्ष्य पराक्रमः वीरत्वम् पुरुषश्रेठेन सह योध्धुं नकुलः पराक्रामतीति भावः ॥ १३ ॥ चिदंशं वेद दुर्भेदं मुख्यं तस्य विभेदने। शौचधर्म पुरस्कृत्याधात् सन्मार्गणैषणम् ॥ १४ ॥