SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ आचार्य श्रीविजया मृतसूरिप्रणीता सरणी टीका, सर्ग-६ अन्वयः – स्वतः स्थानत्रयीं मुक्त्वा तुर्यम् मण्डलम् आनयत् उपघातात् पराधातात् यावनं स्थलम् जिगाय ॥ ५ ॥ WAL W ३०१ ✓ व्याख्या — स्वतः स्वयमेव स्थानत्रयीं चतुर्थपञ्चषष्ठगुणस्थानानां त्रयी स्थानत्रयी तां मुक्त्वा परित्यज्य तुर्य मण्डलं अप्रमत्तगुणस्थानं आनयत् आश्रयत् उपघातात् अपकारात् पराघातात् तिरस्कारात् अथवा गमनात् विचरणादिति भावः यावनं यावनसंबन्धिनं स्थलम् यवनप्रायभूमिम् जिगाय विजितवान् मौनव्रत धारणाद्यवनाऽडम्बादिम्लेच्छस्थानादिषु विहारेण तेभ्यो दर्शनन्दत्वा पावयाञ्चकार यवनानिति तत्वम् ॥ ५ ॥ रामकृष्णपक्षे - स्वतः स्वयमेव स्थानत्रयीम् स्थानानामुपचयापचय हीनानां त्रयीम् मुक्त्वा परित्यज्य तुर्य मण्डलं चतुर्थोपायम् विग्रहमित्यर्थः आनयत् स्वीकारमकरोत् उपघातात् अपकारात् पराघातात् तिरस्कारात् यावनं स्थलम् तौरुष्कम् जिगाय विजिग्ये ॥ ५ ॥ एवं भावनया देवश्छेत्तुं मोहमहाद्रुहम् । समारुह्य गुणस्थानमारेभे क्षपकोद्यमम् ॥ ६॥ अन्वयः -- देवः एवं भावनया मोहमहाद्रुहं छेत्तुम् गुणस्थानं समारुह्य क्षपकोद्यमम् आरेभे ॥ ६ ॥ व्याख्या - देवः जिनेन्द्रप्रभुः एवं पूर्वोक्तप्रकारं भावनया विचारेण मोहमहाद्रुहम् दुह्यतीति ध्रुक् महाश्रासौ ध्रुक् महाधुक् मोह एव महाधुकू मोहमहाधुक् तम् मोहरूपमहद्वैरिणं छेत्तुम् भेत्तुम् निराकर्त्तुम् गुणस्थानम् अष्टमम् अनिवृत्तिबादरगुणस्थानम् समारुह्य समबलम्व्य क्षपकोद्यमम् कर्मक्षयजनकोद्यमम् आरेमे मोहक्षयविधौ प्रसक्तो बभूव तन्निराकरणैकमना अजनि ॥ रामकृष्णपक्षे - देवः दीप्तिमान् रामः कृष्णश्च मोहमद्दानुहम्
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy