SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ ३०२ महोपाध्यायश्री मेघ विजयगणिविरचिते सप्तसन्धानमहाकाव्ये मोहयति स्वपराक्रमेण अधीरयतीति मोहः शत्रुः स एव महाद्रुहः द्रोहकारकः तम् छेत्तुम् उन्मूलयितुम् भावनया निराकरिष्णुमनसा गुणस्थानम् राज्ञां संधिविग्रहादिषट्स्थानम् समारुह्य स्वीकृत्य क्षपकोद्यमम् क्षपयतीति क्षपकः निवारकस्तस्य उद्यमम् उद्योगम् आरभे प्रारब्धवान् || ६॥ जीवा - स्थानं चापरागं मनस्याधाय तत्पदम् । गुणाधिरोहे प्रबलं बलं स्वं समधारयत् ॥ ७ ॥ -जीवास्थानम् अपरागम् च तत्पदम् मनसि आधाय गुणा अन्वयः धिरोहे प्रबलम् स्वम् बलम् समधारयत् ॥ ७ ॥ - व्याख्या -- जीवास्थानम् आसमंतातिष्ठत्यस्मिन्निति आस्थानम् जीवानाम् आत्मनाम् आस्थानम् जीवास्थानम् द्वादशमं स्थानम् अपरागम् अपगतो रागो यस्मात् तत् अपर गम् क्षीणमोहम् रागादिरहितम् तत्पदम् रागरहितम् पदम् क्षपणकपदम् यद्वा जीवानां वास्तविकं स्थानम् गुणाधिरोदे गुणस्थानाधिष्ठाने प्रबलम् प्रधानम् स्वम् स्वकीयम् बलम् तपोबलम् समधारयत् धृतः ॥ रामकृष्णपक्षे – जीवानाम् धनुर्गुणानाम् आस्थानम् चापरागम् चापस्य धनुषः रागम तत्पदं गुणे पदम् आधाय विचार्य गुणाधिरोद्दे गुणारोपणे प्रबलम् प्रकृष्टम् स्वम् आत्मीयम् बलम् ओजः समधारयत् समाचिनोद ॥ ७ ॥ अजिह्मगधिया लक्षं किञ्चिदादाय धीरधीः । विव्याध बाधकं क्रोधाद योधं सम-र-सं-गतः ॥ ८ ॥ अन्वयः -- वीरधीः समरसंगत: अजिह्मगधिया किंचिल्लक्ष्यम् आदाय क्रोधात् बाधकं योधम् विव्याध ॥ ८ ॥
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy