________________
३००
महोपाध्यायश्रीमेघविजयगणिविरचिते सप्तसन्धानमहाकाव्ये
रामपक्षे यस्याः जानक्याः कृते जानकीलाभाय जानकीस्वयंवरकाले कीर्तिःधनुरारोपेण जन्या समाख्या राजसमूहसंबन्धिनी राजा नृपेन न आददे नासादितवती अत्र राजेत्यकवचनेन केनापि रामव्यतिरेकेण न गृहीतेति वस्तुव्यज्यते सा जानकी येन रावणेन आनीता अपहृता तस्य रावणस्य श्री सम्पत् स्थिरा जातकी निश्चला भवित्री किम् नैव निश्चलेत्यर्थः ।।
कृष्णपक्षे पूर्वपक्षवदवसे यम् ॥ ३ ॥ अहो! मोहोऽवमोहाना हानाङ्गं पुरकामिनी । कामिनीत्या निषिद्धापि स्वबुद्धयाङ्के निधीयते ॥४॥
अन्धयः- अवमोहाना अहो मोहः पुरकामिनी हानाङ्गम् कामिनीत्या निपिद्धाऽपि स्वबुद्धया अङ्के निधीयते ॥ ४ ॥ ___व्याख्या--अवमोहानाम् अवमुहयंति वैचित्यमुपगच्छंतीति अवमोहाः मोहिताः तेषाम् कर्त्तव्याकर्तव्य विवेकशून्यानां अहो मोहः अहो अविवेकिता यतः पुरकामिनी पुरं शरीरं कामयते न तद्धर्मादिकं किमप्यन्यदिति सा योषित् यद्वा पुरकामिनी पुरस्य कामिनी साधारणस्त्रीवाग्वधूरित्यर्थः हानाङ्गम् हानस्य त्यागस्य अङ्गम् प्रधानाङ्गम् त्याज्यम् तथा च कामिनी त्या कामिनां कामुकानां या नीतिः कामशास्त्रम् तया निषिद्धापि वर्जनीयत्वेन परिगणितापि " रक्तायां वा विरक्तायां रतिस्तस्यान्न विद्यत" इति निन्दाश्रुत्यापि स्वबुद्धया स्व. कीयकामपरतन्त्र विचारशून्यमत्या अङ्के कोडे निधीयते स्थाप्यते कामिजनैरित्यहो मोहविलसितम् ।। ___सर्वसाधारणत्वेनोपदेशगर्भवचनमेतत् ॥ ४॥ स्थानत्रयीं स्वतो मुक्त्वा तुर्य मण्डलमानयत् । उपघातात् पगघाताजिगाम यावन स्थलम् ॥ ५॥