SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ भाचार्यश्रीविजयामृतरिप्रणीता सरणी टीका, सर्ग-1 २९९ निमित्तम् पुंसां पुरुषाणां क्षतिः सर्वतः इहलोकतः परलोकतश्च हानिः सा क्षितिः योषित देहिनाम् देहवतां ईरणोचिता त्यागोचिता यस्याः कृते एव सर्वतोबन्धनं भवति साऽवश्यमेवत्यागाहेति भावः ॥ रामपक्षे ---सर्वराज्ञां सर्वेषां नृपानां क्षितिः पृथ्वी प्रिया प्रेयसी राज्ञां पृथ्वीपतितत्वात् तस्याः क्षितेः प्रियतमा अतिशयस्नेहपात्रा सुता कन्यका भवतीति शेषः यस्याः कृते दुहितुनिमित्तं पुंसां पुरुपार्थानां क्षतिः "स्वसुताधर्षणन्न केऽपि सहन्त इत्यर्थः" सा वैदेही विदेहराजकन्यका पृथ्वीतनया रणोचितारणाय तन्मोचनार्थ संग्रामाय उचिता अवश्यसंग्रामयोग्येति भावः॥ कृष्णपक्षे-सर्वराज्ञां समस्तभूपतीनां क्षितिहिँसा प्रिया सर्वदा विजिगीषुतया हिंसाबद्धरुचिः चित्ताः तस्याः प्रियतमाः सुताः तस्या हिंसायाः प्रियतमा अत्यन्तप्रिया सुता सम्पदः यस्याः सम्पदः कृते पुंसां क्षतिर्हानिः सा वै हिंसा देहीरणोचिता देहिनाम् ईरणोचिता त्यागयोग्या |॥ २ ॥ राजानकीकृते यस्या राजा न कीर्तिराददें। सा नीता जानकी ये न तस्य श्रीर्जातकी स्थिरा ॥३॥ अन्वयः – यस्याः कृते राजानकी स्थिरा कीतिःराजा न भाददं सा जानकी येन नीता तस्य श्रीर्जातकी ॥ ३ ॥ व्याख्या---यस्याः क्षितेः कृते निमित्तम् राजा राजते इति राट् तेन राजा नृपेण राजानकी राजमंडलोद्भवा कीतिः प्रशस्तिः सिरा निश्चला चिरस्थायिनी न आददे न जगृहे परस्परविवदमानास्सन्तो नष्टा इत्यर्थः सा जानकी लक्ष्मीर्येन नीता तदर्थमतिप्रसक्तिः प्रदर्शिता तस्य प्रसक्तस्य श्री सम्पत् जातकी दुहितेव किं वंशपरम्परा की नेवेत्यर्थः ॥ ३ ॥
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy