________________
२९८ महोपाध्याय श्रीमेवधिजयगणिविरचिते सप्तसन्धानमहाकाये
॥ अथ षष्ठः सर्गः ॥ अथ श्रीमदनेकान्त-कवचं कान्तमुद्रहन् । उदियाय जयश्रीमान् कामस्यारेभिंदे विभुः ॥१॥
भन्वयः -- अथ कान्तं श्रीमदनेकान्तकत्र चमुद्वहन् जयश्रीमान् विभुः भरेः कामस्य भिदे उदियाय ॥ १ ॥
व्याख्या-अथानन्तरं कान्तं मनोज्ञं श्रीमदनेकांतकवचं श्री: शोभासम्पत्तिः वैराग्यसंपत्तिर्वा यस्मिन् तत् अनेकान्तः स्याद्वाद एव कवचः वर्म तम् उद्वहन् धारयन् उद्वहमानः जयश्रीमान जयाय श्रीमान् नृप इवेत्यर्थः विभुः प्रभुजिनेन्द्रः अरेः शत्रुभूतस्य कामस्य मनसिजस्य भिदे नाशाय निरासाय उदियाय उदयमभ्युदयं प्राप उद्युक्तो बभूवेति भावः ॥ १ ॥ श्लेषः।
रामकृष्णपक्षे--अन्तयति शत्रुमिति अन्तः अनेकेषामन्तः अनेकान्तः स चासौ कवचश्चेति अनेकान्तकवचस्तमुद्वहन धारयन् काम. स्यारेः कामप्रधानस्य अरे रावणस्य अन्यत्र कामस्य प्रद्युम्नस्य शत्रोजरासंधस्येत्यर्थः अन्यत्पूर्ववत् ॥ १ ॥ क्षितिः प्रिया सर्वराज्ञां तस्याः प्रियतमा-सुताः। यस्याः कृते क्षतिः पुंसां सा वैदेही-रणोचिता ॥ २॥
अन्वय:- सर्वराज्ञां क्षितिः प्रिया तस्या: सुता प्रियनमा यस्याः कृते पुंसां क्षतिः सा वैदेहीरणोचिता ॥ २ ॥ ___व्याख्या-सर्वराज्ञाम् राजन्ते राजः सर्वेषां सर्वेषु वा राज: सर्वराजस्तेषाम् सर्वत्र विराजमानानां क्षितिः क्षिणोति कामवासनां या सा क्षितिः योपिन् प्रिया प्रियत्वेनाभिमता तस्याः क्षियोषितः सुता दुहिता प्रियतमा अतिशयेन प्रिया यस्याः दुहितुर्योषितो वा कृते