________________
भाचार्यश्रीविजयामृतसरिप्रणीता भरगी टीका. सर्ग-५
२९७
शब्दायते इति धनुः अन्तरॉकारााच्चारकः तस्मिन् अन्तर्ध्यानमग्ने प्रभाविति शेषः मान्धर्वदेवा गंधर्वा एव गान्धर्वा सर्वे गांधर्वाश्च ते देवाश्चेति गान्धर्वदेवाः पटुतरतरसा पटुतरेण कौशलेन तरसा झटिति स्वस्था निरूपद्रवाः तूरम् तूर्यम् आपूरयन्तः वादयन्तः सैन्धवं तीरं सिन्धुतटम् प्राप्य संगत्य राग गानं वितेनुः सर्वे प्रभुरागेण गायन्तिस्म।।
रामकृष्णपक्षे-स्वामिनि गमे कृष्णे वा धृतगुणे धृतवाके धनुषि कोदण्डे सति अन्यत् सर्व पूर्ववदव से यम् ।। ५८ ।।
अत्र श्लोके स्रग्धरावृत्तम् " ब्रम्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेय"मिति तल्लक्षणात् ।।
इतिश्री शास्त्रविशारद-कविरत्न-भट्टारकाचार्य-श्रीविजयामृतसूरीश्वरप्रणीतायां
सप्तसंधानमहाकाव्य-सरणीटीकायां पंचमः सर्गः ॥ ५ ॥
Mru