________________
.२९६ महोपाध्यायश्रीमेघविजयगणिविरचिते सप्तसम्धानमहाकावे यलोकानां आसमन्तात् वने हिंसने मारणे घना निविडा मति बुद्धिर्यस्य स दाने द्यत्यस्मिन्निति दानम् तसिन् युद्ध शैलग्रहे व्यूहग्रहे च हितचिन्तकः हितानुबन्धी लोकसैन्यजनः सतीव्रतया सत्वरतया समरसीमानं रणभूमि प्रापत् अगमत् वासवभूपतिः सुसमृद्धनृपतिः सदशाननः शत्रुच्छिद्रान्वेषणाय दशसु दिक्षु आननं मुखं लक्ष्यं यस्य सदशाननस्तेन सहितः सदशाननः पंचाननः सिंह इवेति लुप्तोपमा सिंह इव सजरासंधः समरसीमानं रणभूमिप्रदेशम् प्रापत् अयासीत् ।।५७॥ ___अत्र लुप्तोपमा विरोधाभासश्चालंकारः ॥ एवं राज्यादिवारे स्फुरति मतिमतां संनियोगे नियोगे, खामिन्याशु-प्रकाशे जयनि समभवत् सप्रभावोऽनुभावः। सर्वे गान्धर्वदेवाः पटुतरतरसा तूरमापूरयन्तः, वस्था रागं वितेनुर्धनुषिधृतगुणे सैन्धवं प्राप्य तीरम् ५८ इति श्रीसप्तसंधाने महाकाव्ये राज्याङ्के महोपाध्यायश्रीमेघविजयः
गणिविरचिते श्रीनगवद्विहारवर्णने पञ्चमः सर्गः ॥
अन्वयः - एवं राज्यादिवारे मतिमतां सशियोगे नियोगे म्फुरति आशुप्रकाशे जयिनि स्वामिनि सप्रभावोऽनुभावः समभवत् धृतगुणे धनुषि मैन्धवं तीरं प्राप्य भासाध सर्वे गान्धर्वदेवाः पटुतरतरसा तूरमापूरयन्त: स्वस्थाः रागं बितेनुः ॥ ५८ ॥
व्याख्या-एवमुक्तप्रकारेण राज्यादिवारे राज्यांके मतिमतां बुद्धिशालिनां सन्नियोगे सत्सु नियोगे नियोजन प्रेरणं तसिन् नियोगे व्यापारे स्फुरति प्रकाशमाने सति आशुप्रकाशे आशु झटिति प्रकाशो नैर्मल्यं यस तस्मिन् जयिनि सर्वोत्कर्षेण विद्यमाने स्वामिनि जिनेन्द्र सप्रमावः प्रभावेन सहितः समहिमा अनुभावस्तेजोविशेषः समभवत् धृतगुणे धृतः गुणो दयादाक्षिण्यादिर्येन तमिन् धनुषि धन्य ते