________________
भाचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका. सर्ग-५ २९५ यदि भुवि चरश्चेदीशोऽगाद न शिष्टमतः स्थितमिति बहुजनोऽवादीत सादी परोऽपि हिरण्यवान्॥५६॥
अन्वयः-अकृत्या विपाकविमर्शनात् सुतनयवरैः सरुक्मिनृपोयमैः सत्रा देवादेशैः सह पदपुरः हिरण्यवान् सादी परोऽपि यदि भुविचर ईशः अगात् चेत् अतः शिष्टं न स्थितमिति बहुजन अवादीत ॥ ५६ ॥
व्याख्या-अकृत्या विपाकविमर्शनात् अकृत्याः अकर्तव्यतायाः यो विपाकः परिणामः तस्य विमर्शनात् विचारात् सांसारिकविषय वासनोपभोगविपाकविवेकतः सुतनयवरैः सुष्टु तनोत्यात्मककल्या. णमिति सुतनयः तेषु वरः श्रेष्ठस्तैः सरुक्मिनृपोद्यमैः रुक्मं स्वर्णम स्थास्तीति रुक्मी रुक्मिणा सहितः सरुक्मी सचासौ नृपश्चेति तस्योधमा उत्साहस्तैः सत्रासह ससुवर्णनृपोत्साहैः सह देवादेशः प्रव्रज्या. ग्रहणसमयस्मारकदेवादेशैः सह तत्क्षणमेव पदपुरः पद्यतेऽस्मिन्निति पदं अक्षयस्थानम् तत्र पुरति अग्रे गच्छतीति तथोक्तः ईशः जिनेन्द्रः हिरण्यवान् यत्नवान् सादी परोऽपि गजाश्वादिवाहनोऽपि यदि भु. विचरः पादचारस्सन् अगात् संसारात् विरक्तोऽभवत् अतः शिष्टम् न स्थितम् इति एवं बहुजनः अवादीत् अकथयत् ॥ ५६ ॥
रामपक्षे-अकृत्या विषाकविमर्शनात् अकृत्यायाः सीताहरणरूपाकार्यकृत्याया यो विपाकः संग्रामप्रवचनं प्रत्यर्पणं वेति परिणामस्तस्य विमर्शनात् विचाराद हेतोः देवादेशैः रात्रणनृपशासनैः सहक्मिनृपोद्यमैः ससुवर्णराजोत्साहैः सुतनयवरैः सुष्ठुतनयः पुत्रः सुत. नयः तत्र वरः श्रेष्ठः तैः मेघनादादिमिः सत्रा सह पद्यते गम्यतेऽस्मिनितिपदम् रणस्थानम् तत्र पुरति अग्रे गच्छतीति सहपदपुरः आज्ञासमकालमेव कृताग्रगमनः यदि झुविचरः रणभूमिगतः चेत् तदा ईशः रावणोऽपि हिरण्यवान् स्वर्णकुटादिभूषितः सादीपरः गजा.