SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ महोपाध्याय श्री मेघविजय गणिविरचिते सप्तसन्धानमहाकाव्ये श्वादिवाहनसहितः अगात संग्रामाणं प्रत्यचालीत् अतः सतनयरावणगमनात् शिष्टम् अवशिष्टम् न स्थितम् इति बहुजनः बालवृद्धा दिः अवादीत् परस्परमवोचत् ॥ २९४ -jah कृष्णपक्षे – अकृत्यायाः कृष्णकृतस्वजामातृवधरूपाक्रियायाः विपाकस्य विमर्शनात् विवेकात् सुतनयवरैः सत्रा सह देवादिपुत्रैः सह देवादेशः जरासंध भूपाज्ञाभिः सरुक्मिनृपोध मै रुक्मिनामक भूपो त्साहैः सह पदपुरः सोद्यमः "पदं व्यवसितत्राणमित्यमरः " बहुजनः अनेकजनः अविचरः पादचारः यदि यदा तदा चेदीशः चेदिराजः शिशुपालः हिरण्यवान् सौवर्णकटककुण्डलवान् सादीपरः गजाश्वादिवाहन सहितः अगात् जरासंधेन सह कृष्णयुद्धाय रणभूमिं प्रत्यगच्छत् अतः शिष्टं न स्थितमित्यवादीत् ॥ ५६ ।। प्रभुविहरणे लोकः स्वौक: सतीव्रतया-जना - वनधनमतिर्दाने शैलग्रहे - हितचिन्तकः । अपि समरसीमानं प्रापत् स- वासवभूपति हृदयदयितारागात् पञ्चाननः सदशाननः ॥ ५७॥ भन्वयः -- - प्रभुविहरणे लोकः जनावनधनमतिः स्त्रीकः दाने सतीतया शैलग्रहे हितचिन्तकः स वासवभूपतिः हृदयदयितारागात् पंचानन स दशानन अपि समरसीमानम् प्रापत् ॥ ५७ ॥ व्याख्या - प्रभुविहरणे प्रभोजिनेन्द्रस्य विहरणे बिहारे जनाव नधनमतिः जनानाम् अवनम् रक्षणम् तत्र घना निबिडा निश्वच्छिन्ना निरंतरेत्यर्थः मतिर्बुद्धिर्यस्य स लोको जनः खौको दाने प्रभोर्निवासाय स्ववासभूमिसमर्पणे सतीव्रतया सत्वरेण अहमहमिकया उपर्युपरि इतिभावः शैलग्रहे शैलानां तोरणानां जिनेन्द्रणामागमनजन्यहर्षोस्कर्ष सूचक महोत्सवानां हे ग्रहणे विधाने "तोरणोर्ध्वे तु माङ्गल्यं दा
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy