________________
२९३
महोपाध्यायश्री मेघविजयगणिविरचिते सप्तसन्धानमहाकाव्ये
जिनेन्द्रे कामो विह्वलो जात इति भावः प्रतिहरिरवाद प्रतिहरेः का मस्य वात् भयचीत्कारात् भयजनितसाध्वसरवात् सैन्यस्य तदीयस. हायकस्य वसंतादेः चलाचलताबलात् चाञ्चल्यतः इतस्ततः पलायनतः स्वयम् प्रभुजिनेन्द्रः जाम् भूमौ पर्वत इव गिरिरिव गर्व कामंदि. जयोत्कर्षम् वहन् मनसि धारयन अभिययो विजहार । अत्र पर्वतोपमानेन प्रभी दुषत्वम् स्थिरत्वं च वस्तु उपमालंकारव्यंग्यम् ।।
रामपक्षे तदनु तत्पश्चात् लंकाधिष्ठिते रामे सति भुजैः भुञ्जन्ती भुजाभोग्यवन्तः तैर्महाभाग्यवद्भिर्मनुजैर्मनुष्यैः समं सह हरि चरणतः हरेः कपेश्वरणतः पादतः इतस्ततः सर्वत्रनिर्भीकप्रचारतो वा दशास्यमहीपते रावण तृपस्यचित्ते दुने चित्ते हृदये दुने खिन्ने क्लिष्टे सति दनुजैर्दानवे रक्षोल:रने कराक्षसः समम् सह प्रतिइरिस्चात् प्रतिहरित्वाभिमानकृतादेशात् चलाचलताबलात् चलाचलस्य भावअलाचलता अत्यन्तचंचलता तस्या बलात् तदाश्रयणात् पर्वत इव गर्वमहंकार वहन् धारयन् बहुगर्विष्ठः सैन्यस्यान्तः सैन्यमध्ये स्वयम् स्वयमेव रावणः उाम् रणभूमौ अभिययौ अभिजगाम स्वयमेव रामेण योद्धु संग्रामभूमिमवततारेतिभावः ॥
कृष्णपक्षे-हरिचरणतः हरेः कृष्णस्य चरणतः आचरणतः अवि. वेकाचारतः कंसादिवधत इत्यर्थः दशास्यमहीपतेर्जरासंधनृपस्य चित्ते मनसि दूने खिन्ने सति प्रतिहारस्वात् जरासंधाज्ञातः सैन्यस्यान्तः चलाचलताचलात् चाञ्चल्यतः स्वयम् स्वयमेव पर्वत इव गर्व वहन उाम संग्रामाङ्गणभूमौ ययौ कृष्णेन योद्धमभिससारेति भावः ।। सुतनयवरैः सत्रा कृत्याविपाकविमर्शनात् ,
सहपदपुरो देवादेशैः सरुक्मिनृपोद्यमैः ।