________________
भाचार्यश्री विजयामृतरिप्रणीता सरणी टीका, सर्ग-५
२९१
इति तदङ्गनिवन्धनात् तस्य रामस्य अङ्गनिबन्धनात् कन्यार्पणेन कुटुम्बसम्बन्धात् भुवनजलधेमध्ये स्थिरान्तरभूभृता समं जज्ञे रामसंबन्धामिर्भयो जात इति भावः ॥
. कृष्णपक्षे-प्रभुवचनतः शक्रेन्द्रवचनतः सेतुः समुद्रः मुद्रया सहितः समुद्रः रूपेण सहितः सरूपः सरूपश्च समुद्रश्चेति सरूपसमुद्रौ तौ भजतीति सरूपसमुद्रभाग स्वीयदेवचिह्नचिह्नितविशिष्टरूपवान् जलधिः त्यागात् स्वजनसंकोचेन वासयोग्यभूमित्यागात् युधिरुधिरतः परिखारूपेण द्वारकायाश्चतुर्दिक्षु स्थितत्वेन संग्रामवारणे समर्थः जलदुर्गमयः अत एव नागादिनीकृतसंगरः गजादियुद्धनिवारक: जलदु. मदिौ गजादिना प्रवेशो भवति परन्त्वत्रागाधत्वेन न संभाव्यते तद आसीदिति शेषः सुकृतभरतः पुण्यप्रभावतः तदङ्गनिवन्धनात् समुद्र. संबन्धात् श्रेयोमार्गः कल्याणेच्छुः भुवनजलधेः अदसीयभुवनसमुद्रस्य मध्ये स्थिरान्तरभूभृता जज्ञे ॥ ५४॥ तदनु दनुजै रक्षोलक्षः समं मनुजैर्भुजै
हरिचरणतश्चित्ते दूने दशास्य-महीपतेः । प्रतिहरिरवात् सैन्यस्यान्तश्चलाचलतावलात्,
स्वयमभिययावुा गर्व वहन्निव पर्वतः ॥५५॥
अन्वयः-तदनु दनुजैः रक्षोलमनुर्भुजैः समं हरिचरणतः दशास्य महीपतेः चित्ते दूने प्रतिहरिरवात् सैन्यस्यान्तश्चलाचलताबलात् स्वयम् पर्वत इव गर्व वहन् उर्ध्याम् अभिययौ ॥ ५५ ॥
व्याख्या-तदनु तत्पश्चात् दनुजैर्दानवै रक्षोलक्ष राक्षसाना लक्षैरनेकराक्षसैर्मनुजैर्मनुष्यैः भुजैः भुनक्ति भुवमिति भुजो नृपास्तैः समं सार्धम् हरिचरणतः होर्जिनेन्द्रस्य चरणतः निर्गलविहारतः दशास्यमहीपतेः कामनृपस्य चित्ते मनसि दूने विह्वले सति विचरति