________________
२९.
महोपाध्याय श्रीमेघविजयगणिविरचिते सप्लसम्मानमहाकावे
rrarewanawran.......
वंथाहिंसात्मकयुद्धनिवारका त्यागात् संसारिकविषयवासनापरित्यागात नागादिनीकृतसंगरः न गच्छति भोगमन्तरा इति नागं कर्म तत् आदिर्यस्य स नागादिः कर्मादिशत्रुः तस्य नीकृतः नीचैः कृतः संगरः प्रसरो येन स कर्मादिप्रसक्तिप्रतिरोधकः श्रेयोमार्गः श्रेयो मोक्षं मार्गते अन्वेषते इति तथोक्तः तदङ्गनिबंधनात् तस्य श्रेयसो मोक्षस्य अङ्गम् प्रधानकारणं संयम चारित्र्यमित्यर्थः तत्र निबन्धनं प्रवृत्तिरभिनिवेशस्तस्मात् मोक्षमार्गानुसरणात् सुकृतभरतः पुण्यप्रभावात् भुवनजलधेः संसारसमुद्रस्य मध्ये संसारसमुद्रे स्थिरान्तरभूभृता स्थिरान्तरः अतिनिश्वलो यो भूभृव मैनाकगिरिः कदाचिदपि ततो न चापल्यस्तेन सममिति शेषः जज्ञे यथा स निश्चलस्तथायमपि लोकभननीयत्वेन स्थिरः " कीर्तिर्यस्य स जीवतीत्यभियुक्तोक्तेः" सोऽद्यादिस्मरणीयत्वेनाराध्यत्वेन च स्थित इति भावः ॥
रामपक्षे-सरूपसमुद्रभाक् रूपेण समानः सरूपः तुल्यरूपः स चासौ समुद्रश्चेति सरूपसमुद्रः तम् भजति अनुसरतीति सरूपसमुद्रभाग् समानरूपसमुद्रभूपसहितः सेतुर्भूपः सेतुनामानृपः “यदा लंका गच्छन् रामो वेलन्धरपर्वतसमीपं गतस्तदा समुद्रसेतुनामानौ नृपौ यो. धुमागताविति रामायणकथा" नागादिनी कृतसंगरः नगे भवः नागः कपिः स आदिर्यस्य स नागादिः तेन नीकृतः अधाकृतः संगरः संग्रामो यस्य सः वानरादिनिवारितयुद्धः अत एव युधिरुधिरतः युधेः संग्रामस्थ यो रुधिर्निवर्तनं तत्र रतः प्रसक्तः अथवा युधि संग्रामे यो रुधिः रोधनं बन्धनमित्यर्थः तत्र रतः वानरादिभिर्जीवग्राहं गृहीतः सन् प्रभुवचनतः प्रभो रामस्य वचनतः आदेशतः त्यागात् मोचनात् श्रेयोमार्गः श्रेयः कल्याणं शुभादृष्टं वा मागेते इति तथा सुकृतभरतः पुण्यप्रभावात् “निजकल्याणाय रामभ्रात्रे लक्ष्मणाय तिस्रः कन्या ददौ"