SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीविजयामृतरिप्रणीता सरणी टोका. सर्ग-५ २८९ शेषः, धामा धामवान् "गुणवचनेभ्यो मतुपो लुगिष्ट" रामः स दाशरथी दशरथापत्यः रसात् वीररसात् मगधाश्रयः मगधानां स्तुतिपाठ. कानामाश्रयः स्तोतव्यः व्याजाहते व्याजं विना निष्कपटमित्यर्थः गि. रितटम् वेलन्धरपर्वतसमीपम् अगात् अगमत् ॥ ___ कृष्णपक्षे-सदाशरथी दासेन सहितः सदासः शसयोः साम्यात् सदासो रशे यस्य सदाशरथी सारथी सहितरथवान् रसात् वीररसाभिव्यञ्जकस्थायीभावरूपोत्साहात् मगधाश्रयः जरासंधाभिमुखः अगात् अन्यत्पूर्ववद्योज्यम् ॥ ५३ ।। प्रभुवचनतः सेतुर्भूपः सरूपसमुद्रभाग , युधि रुधिरतोऽत्यागान्नागादिनीकृतसंगरः । सुकृतभरतः श्रेयोमार्गस्तदङ्गनिबन्धनाद् . भुवनजलधेमध्ये जज्ञे स्थिरान्तरभूभृता ॥५४॥ अन्वय:- प्रभुवचनतः सेतुर्भपः सरूपसमुद्रभाग युधिरुधिरतः त्यागात् नागादिनीकृतसंगरः श्रेमोमार्गः तदङ्गनिबंधनात् सुकृतभरतः भुवनजल धेः मध्ये स्थिरान्तरभूभृता जज्ञे ॥ ५४ ॥ व्याख्या-प्रभुवचनत: उच्यते इतिवचः प्रभुश्चासौ बचश्वेति प्रभुवचः प्रभुवचे प्रभुशब्दवाच्ये नतः परिणतः प्रभुवचनतः प्रभुरिति जनैः कथ्यमानः प्रभुरिति यावत् सेतुः मर्यादारूपः लोकमर्यादाध ममर्यादाश्रयीभूतः भूपः भुवम् भूस्थं जनमिति शेषः पाति रक्षतीति तथा सर्वरक्षाकरः सरूपसमुद्रभाग सरूपः रूपवान् यः समुद्रः स सरूपसमुद्रः साक्षात्समुद्रः तं भजतीति तथा तच्छन्देन तत्स्थो गुणो लक्ष्यते इति साक्षात्समुद्र इत्र दुर्धषः अगाधः सर्वसद्गुणरत्नाकरश्चेति भावः युधिरुधिरतः युधेः संग्रामस्य रुधिनिरोषस्तत्र रतः परिणत:स
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy