________________
२४८. महोपाध्यायश्री मेघविजयगणिविरचिते सप्तसन्धानमहाकाव्ये प्रचलति मिथस्तत्तेनागोऽनुगेऽभिमुखागते,
नभसि रभसाक्रान्त कान्तेभराद् बहुदीप्तितः । कतिपयदिनीमारामः स-दाश-रथी-रसाद् , गिरितटमगाद राजा व्याजाहते मगधाश्रयः ॥५३॥
अन्वयः-- कान्तेभंगत् बहुदीप्तितः रभसाक्रान्ते अभिमुखागतेऽनुगे मिथः नभसि प्रचलति तेन अगः धामारामः सदाशरथिः रसान कतिपयदिनैः मगधा श्रयः व्याजाहते गिरिनटमगात् ॥ ५३ ॥ ___ व्याख्या-मिथः परस्परम् प्रचलति प्रसरति अनुगे अनुगा. मिनि पश्चादागच्छति जने तथा अभिमुखागते गन्तव्यदेशात् संमुखा. गते लोके च तेन अनुगनेन अभिमुखागतेन च आगः आसमंतात् गम्यते इति आगः गमेः कर्मणि डः अनुगतः बहुदीप्तितः अतिप्रभातः कान्तेभरात् कात्याधिक्यात् नभसि आकाशे रभसा वेगेन आका न्ते व्याप्ते सति आकाशमण्डलव्यापकतेजःपुज्जे मति धामारामः धाम तेजः आरमते यस्मिन म धामारामः धामनिधिः दाश्यते इति दाशः रम्यते अनेनेति रथः इन्द्रियः दाशः हतः रथ इन्द्रियो यस्य स दाशरथी विजितेन्द्रियः अमगधाश्रयः मगं पापं दधातीति मगधः न मगधः अमगधस्तमाश्रयते इति तथोक्तः निर्मला राजा दीप्तिमान् स जिनेन्द्रप्रभुः व्याजाहते निर्व्याजम् गिरितटम् गिरिसन्निधिम् अगाव अयासीत् ॥ ५३ ॥
रामपक्षे-कान्तीप्लेस्तेजस इत्यर्थः अतिशयात् अत एव रभसाक्रान्ते वेगवति अभिमुखागते स्वसान्निध्यमुपागते अनुगेऽनुनामिनिजने मिथः परस्परं न भसि आकाशे आकाशवर्ल्सना प्रचलति गच्छति सति तेन प्रचलता सैन्येन सहेत्यर्थः अगः गन्तुमशक्यः शत्रुभिरिति