SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ आचार्य श्रीविजयामृतसूरिप्रणीता सरणी टीका, सर्ग-५ अन्वयः -- - समितिः असकृत् कार्या गोपनता स्थितिः न वार्या सहस्रशः विचार्य दृढतरमनोत्रीय कार्यम् कायोत्सर्गेऽपि नियतिवशतः हतिमाप्नुयात् यदि वा मन्योः पक्षः अञ्जसा रसातलं व्रजतु ॥ ५२ ॥ व्याख्या - असकृत् भूयोभूयः समितिः ईर्ष्यासमित्यादयः विधातव्या गोपनता स्थितिः गुप्तित्रयविधिः न वार्या न हेया किन्तु कर्तव्यैव सहस्रशः अनेकधा विचार्य परिचिन्त्य दृढतरमनोवीर्य प्रबलमात्मबलं कार्य विधातव्यम् मनोबलं न कदाचिदपि परिहार्य - मिति भावः अयम् साधुजनः नियतिवशतः दैववशतः कायोत्सर्गेऽपि कायोत्सर्ग क्रियारूपध्यानेऽपि हतिं विनम् आप्नुयात् लभेत तथापि मनश्चाञ्चल्यं नाश्रयेदिति भावः मन्योः क्रोधस्य अहंकारस्य वा पक्षः सहायः अञ्जसा झटिति रसातलम् अधोलोकं व्रजतु गच्छतु सर्वथाहंकारप्रशमोsस्तु ॥ ५२ ॥ अथवा - समितिः संग्रामः कामक्रोधादिभिः सह युद्धम् असकृत् भूयोभूयः कार्या विधेया गोपनतास्थितिः स्वसंयमरक्षणविधिः न वार्या व त्याज्या स्वत्रतरक्षणं सर्वथा विधेयमेव नियतिवशतः दैवाatta: कायोत्सप देहपरित्यागेऽपि अयं कामादिः हतिम् क्षतिम् आप्नुयात् लभेत तथापि न त्यजेत् कायोत्सर्गो यदि भवेत्स विधेयः परन्तु कामादेर्वशो न भवेदित्यर्थः अन्यत् पूर्ववत् ॥ रामकृष्णविषये – समितिः संग्रामः असकृत् पुनः पुनः कार्या विधातव्या गोपनता पृथ्वीपालनता स्थितिर्मर्यादा न वार्या न परिहरणीया सर्वथैव भूपालना विधेया सहस्रशः अनेकधा विचार्य विविच्य दृढतरमनोवीर्य सुदृढस्वात्मशक्ति कार्य विधातव्यम् नियतिवशतः विधिवशतः अयम् आत्मशक्तिवान् कायोत्सर्गेऽपि हतिम् बाधामानुयात् लभेत चेत् यदि तथापि मन्योरहंकारस्य पक्षः स्वाभिमानम् अञ्जसा रसातलम् अधोभुवनम् वा व्रजतु नैव गच्छतु ॥ ५२ ॥ २८७
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy