________________
२८६ महोपाध्यायश्रीमेवविजयगणिविरचिते सप्तसन्धानमहाकाव्ये बलशालिनि बलयति बर्द्धयतीति बलम् तपः बलम् तेन शालितुं शीलमसिन् तस्मिन् प्रोच्चैः स्थाने अत्युनतादेशे स्थिते मयि सितवति विकस्वरे सोत्साहेऽदरे सन्निधौ सूरे सूर्यवंशोद्भवे सति तथाच यत् यतः सेना संयमतः किल्बिषमपराधं छलमित्यर्थः न करोति सावधाने कोऽपि साहसं न कुर्यात् एवंच असहनजने सामर्थ्यशालि. नि जने लीने शरणापन्ने सत्यपि दीनबलात् दैन्यात् रक्षा तदीयाभय दानम् कचिदपि कुत्रापि न बहुच्छला हि राक्षसाः शरगताः सन्तो विश्वासमुत्पाद्य सतिरन्धेऽवश्यमेव विराध्येरनिति न तत्र विश्वासो विधेय इतितत्त्वम् ॥ ५१ ॥
कृष्णपक्षे-जलनिधिगतं समुद्रसमीपरतिनं द्वारकापुरस्थितम् सर्व परमन्यं वा स्वं धनं संयतं सम्यचितं कुरु तपोबलशालिनि तप आलोचनम् "तपः माधे शिशिरे ऋतौ आलोचने स्वाश्रमविहितधर्म चेति शब्दस्तोममहानिधिः" सम्यक् पर्यवेक्षणम् तस्य बलेन उपयोगेन शालिनि विराजमाने प्रोच्चैः स्थाने उन्नतप्रदेशे स्मितवति सावधाने सूरे सामर्थ्यशालिनि मयि सति यदनलसता आलस्वाभावः तेन दूरे परोक्षेऽपि किल्वियं पापमपराधं न करोति नाचरति असहनजने अक्षमिणि जनेऽलीने अस्वाधीने दीनबलात् अयं दीन इति बलात् इति कृत्वेति भावः न रक्षा न पालना विधेयेति शेषः दीने बलवतां शोभापराक्रमशालिनि पराक्रमो विधेय इति तात्यर्यम्॥५१॥ समितिरसकृत् कार्या वार्या न गोपनता-स्थिति
ढतरमनो वीर्य कार्य विचार्य सहस्रशः । नियतिवशतः कायोत्सर्गेऽप्ययं हतिमाप्नुयाद् ,
नजतु यदिवा मन्योः पक्षो रसातलमञ्जसा॥५२॥