SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ भाचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका. सर्ग-५ २८५ जलनिधिगतं सर्वं स्वं वा परं कुरु संयतं, मितवति मयि प्रोच्चैः स्थाने तपोबलशालिनि । यदनलसता सूरे दूरे करोति न किल्विष मसहनजने लीने रक्षा न-दीनबलात् क्वचित्॥५१॥ अन्वयः- प्रोच्चः स्थाने तपोबलशालिनि मयि स्मितवति जलनिधिगतं परं सर्वं स्वं वा संयतं कुरु यदनलसता असहनजने दूरे सूरे किल्विषं किसकरोति लीने दीनबलात् रक्षा क्वचित् न भवतीति ॥ ५१ ॥ व्याख्या-प्रोञ्चैः स्थाने अत्युन्नतप्रदेशे तपोबलशालिनि तपोबलयुक्ते मयि स्मितबति जातहासे अहोऽज्ञानविलसितं कथमेतेऽकार्यमपि कार्यमिव कुर्वन्तीति जातपरिहासे इतिमात्रः स्थिते सतीति शेषः यदि ते धनजिघृक्षा महती वर्तते तर्हि जलनिधिगतं रत्नाकरसंस्थितं सर्व निखिलम् परमुत् कृष्टं स्वम् धनम् संयतं एकत्रीकृतं कुरु स्व. गृहे निचितं कुरु किमित्यल्पधनिनं पीडयसीति भावः यदनलसता यदि तेऽनलसता वीररसस्य स्थायी समुत्साहो वत्तेते तदेति शेषः असहनजने अक्षमे जनेऽदूरे पुरोदृश्यमाने सूरे सूर्यधामनिधौ किमिति किल्विषं अपराधं न करोति नाचरति सर्वेषां वीर्यनिषकोऽसाविति तं प्रत्येव निजसामर्थ्य प्रदर्शयेतिभावः तथाहि लीने शरणापन्ने अमामर्थ्यशालिनि रक्षासहनं दीनबलात् दैन्यादेव कचिन्न सामर्थ्यशालिनि जने यदि रक्षाभवेत् सैव रक्षा दीनस्य रक्षा तु सुतरामेव संभाव्यतेऽसामर्थ्यादिति तत्वम् ॥ रामपक्षे-जलनिधिगतं समुद्रसमीपवर्तमानं अत्र सामीप्ये सप्तमी यथा कूपे गार्य इति सर्व निखिलं स्वं स्वकीयसैन्यम् संयतं सुरक्षितं सर्वतोभयरहितं कुरु विधेहि तथापरं शत्रुश्च संयतं बद्धं स्वा. धीनं कुरु यदि कश्चित् गुप्तचरः समागच्छेत्तं संगृहाणेति भावः तपो
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy